Enter your Email Address to subscribe to our newsletters

गुवाहाटी, 04 नवम्बरमासः (हि.स.)। अन्ताराष्ट्रियख्यातिप्राप्तः मुरलीवादकः दीपकशर्मा इत्यस्य पार्थिवदेहः मंगलवारस्य प्रातःकाले चेन्नैपुरीतः विशेषविमानेन गुवाहाटीनगरं नीतः। जटिलरोगेण पीड्यमानः सप्तपञ्चाशद्वर्षीयः दीपकशर्मा नामकः कलाकारः नवम्बरमासस्य तृतीये दिने प्रातःकाले चेन्नैपुर्यां एका चिकित्सालये उपचारकाले एव निधनं प्राप्तवान्।
गुवाहाटीनगरं प्राप्ते तस्य पार्थिवशरीरं प्रथमं अंबिकागिरीनगरस्थितं तस्य निवासस्थानं प्रति नीतम्, यत्र तस्य परिवारजनाः निकटबान्धवाश्च धार्मिकरीतिरिवाजानुसारं अन्तिमश्रद्धांजलिं अर्पितवन्तः। तस्य पार्थिवदेहः द्वादशवादनात् द्वितीययावद्घटीपर्यन्तं अंबिकागिरीनगरस्य सेउजसङ्घे सर्वसाधारणदर्शनार्थं स्थापितः। सायंकाले राजकीयसम्मानपूर्वकं नवग्रहश्मशाने तस्य अन्त्यसंस्कारः विधास्यते।
---------------
हिन्दुस्थान समाचार