Enter your Email Address to subscribe to our newsletters

नवदेहली, 04 नवम्बरमासः (हि.स.)। भारतीयजनतापक्षस्य (भा.ज.पा.) त्रयः प्रमुखाः नेतारः अद्य बिहारविधानसभायाः रणभूमौ मतदातॄन् प्रति उपस्थिताः भविष्यन्ति। सर्वाधिकलोकप्रियः प्रखरवक्ता च प्रधानमन्त्री नरेन्द्रमोदी ‘मम मण्डपः सर्वाति दृढः’ इति चयन-रणनीतेः अन्तर्गतेन महिला-शक्त्या सह संवादं करिष्यन्ति। केन्द्रीयगृह-सहकारितामन्त्री अमितशाहः, पक्षस्य राष्ट्रियाध्यक्षः केन्द्रीयस्वास्थ्य मन्त्री जे.पी. नड्डा इत्येतयोः अपि बह्वीः महतीः जनसभाः भविष्यन्ति। भा.ज.पा. दलस्य एक्स्-नामके सामाजिक-सञ्चारमाध्यमे त्रयाणां प्रमुख-प्रचारकाणां कार्यक्रमान् प्रकाशितवती अस्ति।
प्रधानमन्त्री नरेन्द्रमोदी 3 नवम्बरदिवसे स्व-एक्स्-माध्यमे लिखितवान् — ‘‘बिहारविधानसभाचयने भा.ज.पा.-राजगस्य विजयाय अस्माकं मातृशक्तिः अपि असाधारणया ऊर्जया पूर्णसमर्पणभावेन च संलग्ना अस्ति। चुनाव-अभियाने तासां सक्रियसहभागिता बिहारस्य लोकतन्त्रयात्राम् अधिकं सशक्तां करोति। नवम्बरमासस्य चतुर्थे दिवसे अपराह्णे 3:30 वादने ‘मम मण्डपः सर्वाति दृढः – महिला संवादः’ इत्यस्मिन् प्रसङ्गे मम मातॄभ्यः भगिनीभ्यश्च सह चर्चायै अहम् अतीव उत्सुकः अस्मि।’’
भा.ज.पा. दलस्य एक्स्-माध्यमानुसारम्, अमितशाहः प्रथमं प्रातः 11:00 वादने दरभङ्गाजनपदे, ततः 12:30 वादने पूर्वचम्पारणे, ततः पश्चाद् 2:00 वादने पश्चिमचम्पारणे च राजग-प्रत्याशीभ्यः समर्थनाय जनसभां सम्बोधयिष्यति। पक्षाध्यक्षस्य नड्डा इत्यस्य अपि एके स्थले जनसभा, अन्यस्मिन् स्थले रथयात्रा (रोड्-शो) भविष्यति। 12:55 वादने नड्डः भोजपुरमण्डले जनसभां सम्बोध्य, ततः गया-जनपदे गमिष्यति। गया-नगर्यां तस्य रथयात्रा अपराह्णे 3:20 वादने आरभ्यते।
हिन्दुस्थान समाचार / अंशु गुप्ता