Enter your Email Address to subscribe to our newsletters

नैनीतालम्, 4 नवंबरमासः (हि.स.)।देशस्य राष्ट्रपति द्रौपदी–मुर्मुः मङ्गलवासरे प्रातः नववादने नैनीतालस्थिते मातृ–नयनादेवी–मन्दिरे शक्तिपीठे पूजाऽर्चनं कृत्वा राष्ट्रस्य सुख–शान्ति–समृद्धीनां कामना अकुरुत। मन्दिरं प्राप्तायां तस्यां मन्दिर–समितेः सदस्यैः पुष्पगुच्छं प्रदाय स्वागतं कृतम्।
राष्ट्रपतिन्या मन्दिरे प्रसादं समर्प्य मन्दिरस्य बहिः घण्टां निनाद्य आध्यात्मिकानुभूतिः अपि प्राप्ता। अस्मिन् अवसरे उत्तराखण्डस्य राज्यपालः सेवानिवृत्तः लेफ्टिनण्ट्–जनरल् गुरमीत्–सिंहः अपि उपस्थितः आसीत्।
तदनन्तरं राष्ट्रपति द्रौपदी–मुर्मुः स्वकाफिलेन सह बाबा–नीब–करौरी–कैंचीधाम्नो दर्शनार्थं प्रयाता।
हिन्दुस्थान समाचार