राष्ट्रपतिः अकरोत् नैनीताल राजभवनस्य मुख्य द्वारस्य शिलान्यासम्
नैनीतालम्, 4 नवंबरमासः (हि.स.)।मङ्गलवारे राष्ट्रपतिः द्रौपदीमुर्मुः नैनीतालराजभवनस्य मुख्यद्वारस्य शिलान्यासं कृतवान्। अस्मिन् अवसरे उत्तराखण्डराज्यपालः लेफ्टिनेंटजनरल् गुरमीतसिंह अपि उपस्थितः आसीत्। ऐतिहासिकस्य नैनीतालराजभवनस्य स्थापना-शतपञ्चविंश
नैनीताल राजभवन के मुख्य द्वार का शिलान्यास करतीं राष्ट्रपति


नैनीतालम्, 4 नवंबरमासः (हि.स.)।मङ्गलवारे राष्ट्रपतिः द्रौपदीमुर्मुः नैनीतालराजभवनस्य मुख्यद्वारस्य शिलान्यासं कृतवान्। अस्मिन् अवसरे उत्तराखण्डराज्यपालः लेफ्टिनेंटजनरल् गुरमीतसिंह अपि उपस्थितः आसीत्। ऐतिहासिकस्य नैनीतालराजभवनस्य स्थापना-शतपञ्चविंशतितमवर्षपूरणस्य अवसरं निमित्तीकृत्य आयोजिते समारोहस्य मध्ये एषः शिलान्यासः सम्पन्नः, यः अस्य धरोहरायाः संवर्धनसंरक्षणयोः दिशि एकः महत्वपूर्णः प्रयत्नः इति मन्यते।

नैनीतालराजभवनं गतशतपञ्चविंशतिवर्षपर्यन्तं उत्तराखण्डराज्यस्य सांस्कृतिकप्रशासनिकऐतिहासिकपरिचयस्य प्रतीकं वर्तते। अस्य स्थापत्यकला, प्राकृतिकसौन्दर्यं, विरासतश्च अद्यापि राज्यस्य गौरवपूर्णधरोहरां प्रकाशयन्ति।

कार्यक्रमे मन्त्री धनसिंहरावतः, सचिवराज्यपालः रविनाथरामन्, विधिपरामर्शी कौशलकिशोरशुक्लः, अपरसचिवा रीना जोशी च सह अनेके अधिकारिणः उपस्थिताः आसन्।

हिन्दुस्थान समाचार