Enter your Email Address to subscribe to our newsletters

— द्विकोटि निवृत्तिवेतनभोगिनां प्रति प्राप्तस्य लक्ष्यं निर्धारितम्।
अहमदाबादम् 04 नवम्बरमासः देशव्यापिनि अङ्कीय–जीवनप्रमाणपत्र–अभियान–४.० अन्तर्गतं टैगोर–सभागृहे एकं महाशिबिरं आयोजितम्। तस्मिन् प्रसङ्गे निवृत्तिवेतनभोजिनां कल्याण–विभागस्य सचिवः वरिष्ठाधिकारीणां सह उपस्थिताः आसन्। ते निवृत्तिवेतनभोजिनः सह संवादं कृत्वा अङ्कीय–माध्यमेन जीवनप्रमाणपत्रस्य प्रस्तुतिं कर्तुं साहाय्यम् अकुर्वन्।
कार्मिक–लोकशिकायत–वृत्ति–मन्त्रालयेन उक्तं यत्, एषः अभियानः नवम्बरमासस्य १ तः ३० दिनाङ्कपर्यन्तं सम्पूर्णे राष्ट्रे प्रवर्तते। अस्याः अन्तर्गतं द्विसहस्राधिक–नगर–ग्रामेषु निवृत्तिवेतनभोजिनः अङ्कीय–सेवाभिः लाभं प्राप्स्यन्ति। अस्मिन् आधार–आधारित–मुखपरिचय–प्रमाणीकरण–प्रविधेः विशेषः उपयः कृतः अस्ति, येन निवृत्तिवेतनभोजिभ्यः बायोमेट्रिक–यन्त्रस्य आवश्यकता न भविष्यति।
सर्वकारेण वरिष्ठ–नागरिकाणां दिव्याङ्ग–वृत्ति भोजिनां च कृते विशेषः उपक्रमः कृतः अस्ति। भारतीय–डाक–भुगतान–बैंक (आईपी लपीबी) गृहात् गृहं गत्वा जीवनप्रमाणपत्रसेवां प्रददाति।
प्रधानमन्त्री नरेन्द्र–मोदी अपि स्वस्य “मन की बात” (२४ नवम्बर २०२४) तथा “संविधान–दिवस” (२६ नवम्बर २०२४) संबोधनेषु डिजिटलइण्डियाप्रयास–अन्तर्गत–अङ्कीयजीवनप्रमाणपत्र–योजना विषये प्रशंसां कृतवान्, या वरिष्ठ–नागरिकाणां निवृत्तिवेतन–प्रक्रियाम् अत्यन्तं सरलां कृतवती।
अहमदाबादे आयोजिते अस्मिन् महामेले लगभग द्विसहस्रं निवृत्तिवेतनभोजिनः भागं ग्रहीष्यन्ति इति अपेक्षा अस्ति। तस्मिन् समये निवृत्तिवेतन–कल्याण–विभागस्य सचिवः तथा संचार–लेखा–महानियन्त्रकः निवृत्तिवेतनभोजिभ्यः सह संवादं अकुर्वताम्।
अस्मिन् अभियानः अन्तर्गतं पेंशन, भारतीय–डाक–भुगतान–बैंकः, दूरसंचार–विभागः, यूआईडीएआई, इलेक्ट्रॉनिक्स–सूचनाप्रौद्योगिकी–मन्त्रालयः, एनआईसी च एवं नानानिवृत्तिवेतन–संघाः सहभागं वहन्ति। गुजरात–राज्ये ८२ नगरेषु १०७ स्थानेषु एवं शिबिराणि आयोज्यन्ते, तेषां पर्यवेक्षणार्थं १०७ नोडल–अधिकारीणः नियोजिताः सन्ति।
हिन्दुस्थान समाचार / अंशु गुप्ता