Enter your Email Address to subscribe to our newsletters





अयोध्या, 5 नवंबरमासः (हि.स.)। श्रीरामजन्मभूमितीर्थक्षेत्रन्यासेन बुधवासरे श्रीराममन्दिरस्य ताजानि छायाचित्राणि प्रकाशितानि सन्ति। न्यासमहासचिवेन चम्पतरायेन कार्तिकपूर्णिमायाः पावने मुहूर्ते एतानि चित्राणि सार्वजनिकीकृतानि।
एतानि छायाचित्राणि सामाजिकमाध्यमेषु तीव्रगत्या प्रसृतानि, जनमानसे अपारश्रद्धां च उत्साहं च जनयन्ति। श्रीराममन्दिरस्य दिव्यरूपं दृष्ट्वा भक्तजनाः अत्यन्तं हर्षिताः सन्ति।
------------
हिन्दुस्थान समाचार / अंशु गुप्ता