उपनिर्वाचनम्: मुख्यमंत्री सायः 6 नवंबर दिनांके नुआपडायां करिष्यति जनसभाम्
भुवनेश्वरम्, 5 नवंबरमासः (हि.स.)।छत्तीसगढ़राज्यस्य मुख्यमन्त्री विष्णुदेवसायः आगामी नवम्बरमासस्य षष्ठे दिने नूआपडाविधानसभाक्षेत्रे उपनिर्वाचने भारतीयजनतापक्षस्य (भाजपा) प्रत्याशी जयढोलकियस्य समर्थनाय एकां जनसभां करिष्यति। भारतीयजनतापक्षस्य सूचनानु
उपनिर्वाचनम्: मुख्यमंत्री सायः 6 नवंबर दिनांके नुआपडायां करिष्यति जनसभाम्


भुवनेश्वरम्, 5 नवंबरमासः (हि.स.)।छत्तीसगढ़राज्यस्य मुख्यमन्त्री विष्णुदेवसायः आगामी नवम्बरमासस्य षष्ठे दिने नूआपडाविधानसभाक्षेत्रे उपनिर्वाचने भारतीयजनतापक्षस्य (भाजपा) प्रत्याशी जयढोलकियस्य समर्थनाय एकां जनसभां करिष्यति।

भारतीयजनतापक्षस्य सूचनानुसारं मुख्यमन्त्री सायः रायपुरनगरात् हेलिकॉप्टरयानेन नूआपडां गत्वा तत्र एकस्मिन् जनसभायां पक्षप्रत्याशिनः पक्षे प्रचारं करिष्यति।

जनसभा समाप्ते सति सः हेलिकॉप्टरयानेन पुनः रायपुरं प्रतिनिवर्तिष्यते।

एतस्य विधानसभाक्षेत्रस्य उपनिर्वाचनार्थं मतदानं नवम्बरमासस्य एकादशे दिने भविष्यति।

---------------

हिन्दुस्थान समाचार