Enter your Email Address to subscribe to our newsletters

नव दिल्ली, 05 नवंबरमासः (हि.स.)।कांग्रेसदलस्य अध्यक्षः मल्लिकार्जुनः खरगे, सांसदः राहुलगान्धी, महासचिवा प्रियंका गाँधी वाड्रा च गुरु नानकदेवजिनः प्रकाशपर्वस्य अवसरं प्रति देशवासिनः शुभकामनाः दत्तवन्तः। एते नेतारः “एक्स” इत्यस्मिन् माध्यमे लेखं प्रकाशित्य गुरु नानकदेवजिनः शिक्षाः मानवतायै प्रेरणास्रोतं इति अभ्यधुः तथा उक्तवन्तः यत् करुणा प्रेम सेवा च “सरबत दा भला” इत्यस्य संदेशः अद्यापि समाजं एकीकुरुते।
मल्लिकार्जुनः खरगे उक्तवान् यत् गुरु नानकदेवजिनः अनन्ताः शिक्षाः न केवलं सिखधर्मस्य आधारं स्थापयामासुः, अपितु सम्पूर्णमानवजातिं एकता–सहानुभूति–निःस्वार्थसेवा–समानता इत्येषां संदेशेन प्रबोधितवन्तः।
राहुलगान्धी अभ्यधात् यत् गुरु नानकदेवजिनः करुणा–प्रेम–सौहार्द–“सरबत दा भला” इत्यस्य शिक्षाः सर्वेषां जनानां कृते नित्यं मार्गदर्शकाः भविष्यन्ति। तेषाम् आदर्शाः मानवतां सद्भाव–सेवापथयोः अनुगमनाय प्रेरयन्ति।
प्रियंका अभ्यधात् यत् गुरु नानकदेवजिना जगतः प्रति प्रेम–करुणा–सेवा–शान्ति–समता–नैतिकता इत्येषां मार्गः प्रदर्शितः। सा च प्रकाशपर्वस्य अवसरं प्रति सर्वान् देशवासिनः शुभकामनाः दत्तवती।
---------------
हिन्दुस्थान समाचार