Enter your Email Address to subscribe to our newsletters

नवदेहली, 5 नवम्बरमासः (हि.स.)।
पुर्तगालदेशीयः अलनास्रसंघस्य च प्रसिद्धः फुट्बॉलक्रीडकः क्रिस्टियानो रोनाल्डो इत्यनेन उद्घोषितं यत् सः शीघ्रमेव फुट्बॉलक्रीडातः संन्यासं ग्रहीतुं सज्जः अस्ति। चत्वारिंशद्वर्षीयः रोनाल्डो उक्तवान् यत् तस्य दीर्घकालीनं गौरवमयम् जीवनं स्वस्य अन्तिमपदे अस्ति, यदा सः एतस्मात् क्रीडातः निवृत्तः भविष्यति तदा एषः अत्यन्तं भावनात्मकः क्षणः भविष्यति।
रोनाल्डो इत्यनेन पीयर्समॉर्गन् अनसेन्सर्ड् इत्यस्मै दत्ते साक्षात्कारमध्ये स्वसंन्यासस्य भविष्ययोजनानां च विषये मुक्तचेतसा चर्चिता।
सः उक्तवान् यत् “शीघ्रमेव... किन्तु अहं तत् कृते सज्जः भविष्यामि। एषः कठिनः क्षणः भविष्यति, आम्, अहं सम्भवतः रोदिष्यामि। अहं भावनात्मकः मनुष्यः अस्मि। किन्तु पञ्चविंशति–षड्विंशत्याः वर्षाभ्यः एव मया स्वभविष्यस्य कृते सज्जा आरब्धा आसीत्, अतः मे विश्वासः अस्ति यत् अहं तत् सम्यक् प्रकारेण नेतुं शक्नोमि।”
जगतः सर्वाधिकसफलानां क्रीडकानां मध्ये गण्यमानः रोनाल्डो इत्यनेन अद्यावधि स्वक्रीडायां ९५२ गोल् अर्जिताः सन्ति। सः उक्तवान् यत् क्रीडानिवृत्त्यनन्तरं जीवनं सः स्वपरिवाराय स्वव्यक्तिगतरुचिभ्यश्च समर्पयितुम् इच्छति।
सः उक्तवान् यत् “फुट्बॉलक्रीडायां गोलस्य यत् एड्रेनालिन् इति आवेगः अस्ति, तस्य तुल्यं किञ्चिदपि नास्ति। किन्तु सर्वस्य एकः आरम्भः अस्ति, एकः च अन्तः। अधुना अहं स्वपरिवारसहितं स्वपुत्रैः सह च अधिकं कालं यापयितुम् इच्छामि। अहं क्रिस्टियानोजूनियरसहितं भवितुम् इच्छामि, यतः सः अद्य तस्मिन् वयसि अस्ति यत्र बालकाः कतिपयपाठम् न शृण्वन्ति, अपि च कदाचित् भ्रान्तिं कुर्वन्ति। मातेयो अपि फुट्बॉलक्रीडां अत्यन्तं रोचयति।” रोनाल्डो इत्यनेन अपि उक्तं यत् सः अधुना स्वमित्रैः सह पैडलक्रीडायाः आनन्दं अनुभवति। रोनाल्डो इत्यनेन स्वव्यावसायिकक्रीडाजीवनस्य आरम्भः स्पोर्टिङलिस्बनसंघात् कृतः आसीत्। ततः परं सः म्यान्चेस्टर्उनाइटेड्, रियालम्याड्रिड्, जुवेन्टससंघेषु च क्रीडितवान्।
म्यान्चेस्टर्उनाइटेडसंघेन सह तेन त्रयः प्रीमियरलीगपुरस्कारं, एकं च विजेतालीगपुरस्कारं जितम्। रियालम्याड्रिडसंघेन सह तेन द्वौ लीगा–पुरस्कारौ चत्वारः, विजेतालीगपुरस्काराः च अर्जिताः। सन् २०२२ तमे वर्षे यूनाइटेडसंघं त्यक्त्वा सः सौदी–अरबदेशीय–अलनास्र्संघं प्रविष्टवान्। तथापि सः अद्यापि म्यान्चेस्टर्उनाइटेड्–संघस्य परिणामेषु दृष्टिं धारयति, यतः तस्य पूर्वः पुर्तगालदेशीयः सहक्रीडकः रुबेन् अमोरीम् अधुना तस्य संघस्य प्रबन्धकः अस्ति।
रोनाल्डो इत्यनेन यूनाइटेडसंघस्य वर्तमानावस्थायां विषये उक्तं यत्
“सः (अमोरीम्) स्वश्रेष्ठं प्रयत्नं करोतु, किन्तु कोऽपि चमत्कारं कर्तुं न शक्नोति। दले प्रतिभा अस्ति, किन्तु कतिपयाः क्रीडकाः ज्ञातुम् अपेक्ष्यन्ते यत् ‘म्यान्चेस्टर्उनाइटेड्’ किम् अस्ति। एषः संघः अद्यापि मम हृदयस्थः अस्ति, किन्तु सत्यं यत् ते सम्यक् मार्गे न सन्ति। परिवर्तनस्य आवश्यकता अस्ति— केवलं प्रशिक्षकेषु वा क्रीडकेषु न, अपि तु सम्पूर्णव्यवस्थायाम्।”
फुट्बॉलइतिहासे पञ्चवारं “बॅलन्–दी–ऑर्”–पुरस्कारप्राप्तः रोनाल्डो इत्यनेन सूचितम् यत् यदा अपि सः संन्यासं गृह्णीयात्, तदा अस्य क्रीडाजगतः ,एकस्य युगस्य अन्तः भविष्यति।
---
हिन्दुस्थान समाचार / अंशु गुप्ता