डेमोक्रेट्-एबिगेल् स्पैनबर्गरः वर्जीनिया-राज्यस्य प्रथमा महिला-राज्यपालः भविष्यति
वाशिंगटनम्, 05 नवंबरमासः (हि.स.)। डेमोक्रेट एबिगेल स्पैनबर्गर वर्जीनियायाः प्रथमं महिला-राज्यपालत्वं प्राप्तवती। सा आधिकारिकरूपेण निर्वाचनम् अभिजिता जाता। तस्या विजयः वर्जीनिया-राज्यस्य राजनैतिकइतिहासे एकः महत्वपूर्णः क्षणः अभवत्। एतत् निर्वाचनं अ
f938c93da3eeabf30a6679828dede59c_1639520889.jpg


वाशिंगटनम्, 05 नवंबरमासः (हि.स.)। डेमोक्रेट एबिगेल स्पैनबर्गर वर्जीनियायाः प्रथमं महिला-राज्यपालत्वं प्राप्तवती। सा आधिकारिकरूपेण निर्वाचनम् अभिजिता जाता। तस्या विजयः वर्जीनिया-राज्यस्य राजनैतिकइतिहासे एकः महत्वपूर्णः क्षणः अभवत्।

एतत् निर्वाचनं अमेरिकायाः राष्ट्रपतिः डोनाल्ड् ट्रम्प् प्रशासनस्य विषये जनमत-संग्रहमिव दृश्यते।

‘द वाशिंग्टन पोस्ट्’ तथा ‘द हिल्’ इत्युभाभ्यां पत्रिकाभ्यां सूचितं यत् —स्पैनबर्गरमहिला वर्जीनिया-राज्ये राज्यपाल-पदे अधिकृततया विजेता अभवत्। वर्जीनिया-राज्ये मतदानकेंद्राणि सोमवासर-सायं समये अवसानेन पश्चात् मतगणना आरब्धा। निर्वाचनस्य पूर्वदिवसे उभयपक्षीयदलेन अपि स्वस्व-प्रत्याशिनां समर्थनार्थं सर्वशक्ति: प्रयुक्ता। पूर्वराष्ट्रपतिः बराक् ओबामा अपि नॉरफॉक्-प्रदेशे स्पैनबर्गरादीन् डेमोक्रैट् प्रत्याशिनः समर्थनार्थम् आगतः।

अथ राष्ट्रपतिः डोनाल्ड् ट्रम्प् अपि सोमवासररात्रौ रिपब्लिकन्-समर्थकैः सह दूरवाणी-संवादं कृतवान्, सर्वान् रिपब्लिकन् प्रत्याशिनः विजयीकरोतु इति आह्वानं कृतवान्। डेमोक्रैटिक् नेशनल् कमिटी अध्यक्षः केन मार्टिन् इत्याख्यः कार्यकर्तृभ्यः उक्तवान् —“वयं तस्मात् विजयामः यतः अस्माकं समीपे ते महान् प्रत्याशिनः सन्ति, ये जनानां महत्त्वपूर्णेषु विषयेषु संग्रामं कुर्वन्ति।” पूर्वं सी.आई.ए. अधिकाऱिणी तथा अमरीकी-संसदस्यापि स्पैनबर्गर नाम्नी शिक्षा, अर्थव्यवस्था, तथा लोकतन्त्रसंरक्षणादिषु विषयेषु निर्वाचनम् अकरोत्।

‘न्यूयॉर्क् टाइम्स्’ पत्रिकानुसारं, सा रिचमण्ड्-नगरस्थे विजयसंबोधनसमये उक्तवती —

“वर्जीनिया-राज्येन पक्षपातस्य स्थाने व्यवहारिकतां,

अराजकत्वस्य स्थाने सभ्यसमाजं च स्वीकृतम्।”

हिन्दुस्थान समाचार / अंशु गुप्ता