Enter your Email Address to subscribe to our newsletters

नवदेहली, 05 नवम्बरमासः (हि.स.)।राष्ट्रीयस्वयंसेवकसंघस्य सरकार्यवाहः दत्तात्रेय-होसबोले श्रीगुरुनानकदेवमहात्मनः पवित्रप्रकाशोत्सवस्य अवसरं प्रति अद्य गुरुद्वारे नानकप्याऊसाहिब् इत्यस्मिन् स्थाने शिरसा प्रणम्य श्रद्धां न्यवेदयत्। अस्मिन् अवसरे सः अवदत् —“गुरुनानकदेवेन प्रदत्तः संदेशः ‘नामजपना, कीर्तनं कर्तव्यम्, वन्दं च भुञ्जीत्’ (अर्थात् ईश्वरस्य नामस्मरणं, ईमानदारीपूर्वकं कर्म, तथा अर्जितधनस्य परोपकारे वितरणं) अद्यापि प्रासंगिकः एव अस्ति।”
सरकार्यवाहा उक्तवन्तः —
“एषा गुरुनानकसाहेबस्य ५५६तमजयंती अस्ति।
अस्मिन् पवित्रे अवसरे वयं स्वश्रद्धां प्रकटयितुं गुरुद्वारे आगताः। गुरुनानकदेवेन उपदिष्टं — ‘मानवता एव परमं धर्मः’। एषः एव अद्य संसारस्य महान् संदेशः अस्ति। सर्वे जनाः तेन निर्दिष्टेन पथेन एव चरन्तु।”
सः पुनरब्रुवत् —
“राष्ट्रीयस्वयंसेवकसंघस्य सदस्याः, भारतस्य नागरिकाश्च सर्वे, गुरुनानकदेवेन निर्दिष्टं मार्गं अनुसरन्तु।
मानवता एव श्रेष्ठतमः धर्मः।
अत्र न कश्चन भेदः — न ऊञ्चनीचभावः, न स्पर्शास्पर्शभावः, न दरिद्रसमृद्धयोः भेदः,
न च धर्मसंप्रदायभेदः।”
हिन्दुस्थान समाचार / अंशु गुप्ता