Enter your Email Address to subscribe to our newsletters

श्रीनगरम्, 05 नवंबरमासः (हि.स.)।उपराज्यपालः मनोजसिन्हा नामकः बुधवासरे उक्तवान् यत् जम्मूकश्मीरप्रदेशस्य शान्तिः प्रगतिश्च इयं नवीना यात्रा असंख्यव्यक्तीनां बलिदानैः भारतदेशस्य च सन्तानां शाश्वतज्ञानपरम्परायाम् अधिष्ठिता अस्ति, येन उपदिष्टं यत् सत्यशान्तिः मैत्र्या करुणया संवादेन च जायते। श्रीनगरनगरे स्थिते एसकेआईसीसी इत्यस्मिन् आयोजिते “जम्मूकश्मीरप्रदेशे शान्तिः जनाः संभावनाश्च” इति विषयकस्मिन् अन्तर्राष्ट्रीयसङ्गोष्ठ्यां उपराज्यपालः भाषमाणः उक्तवान् यत् यत्र जनाः परस्परं सम्मानसंवादौ आत्मीयभावं च सह जीवनं शिक्षन्ते, तत्रैव शान्तिः प्रारभ्यते। “शान्तिः जनाः संभावनाश्च” इत्ययं विषयः जम्मूकश्मीरप्रदेशस्य भविष्ये विषये विचारशीलदृष्टिकोणं प्रदर्शयति।
सिन्हामहाशयः उक्तवान्— “शान्तेः तात्पर्यं तदा भवति यदा प्रत्येकः जनः भयात् हान्याः वा विमुक्तः स्वेच्छया स्वतन्त्रतया जीवितुं शक्नोति। एषा एव शान्तिः अद्य सामान्यनागरिकस्य जीवनस्य गौरवे, कार्ये अवसरैश्च दृश्यते।” सः उक्तवान् यत् सामान्यः कश्मीरीजनः स्वपरिश्रमेण सामूहिकप्रगत्या च एतां शान्तिं निर्मायति।
प्रधानमन्त्रिणः नरेन्द्रमोदिनः नेतृत्वं प्रशंसन् उपराज्यपालः अवदत् यत् तेन असम्भवमपि सम्भवमभवत्, पुनर्निर्माणप्रक्रियया तादृशः समाजः निर्मितः यत्र अस्त्रध्वनिना स्थाने बालानां हास्यनिनादः शिक्षायाः च ध्वनिः श्रूयते। तेन उक्तं यत् यत् त्रिंशद्वर्षेषु न साध्यं जातं तत् पञ्चषड्वर्षेषु सिद्धं जातम्। ये मार्गाः विद्यालयाः कृषिक्षेत्राणि च पूर्वं अशान्त्या गुञ्जन्ति स्म, ते अद्य विकाससमृद्ध्योर् प्रतिरूपत्वेन दृश्यन्ते।
कठिनेन परिश्रमेण अर्जितां शान्तिं रक्षितुं सर्वजनानां सामूहिकार्थदायित्वं स्मारयन् सः उक्तवान्— “एषा शान्तिः स्थैर्याय स्वप्राणान् अर्पितवन्तः सैनिकाः, पुलिसाधिकारीणः, नागरिकाश्च यैः बलिदानैः प्राप्ता अस्ति। तेषां स्मृतिः अस्माकं कर्माणां मार्गदर्शिनी भवतु।”
सिन्हा महोदयः जनान् प्रति अनुरोधं कृतवान् यत् ते धर्मराज्यस्य पालनं सहयोगस्य करुणायाः भ्रातृत्वस्य च मूल्यं रक्षेयुः। सः उक्तवान्— “यः समाजः न्यायसंवादाधारितः भवति सः सदा अग्रे गच्छति।” एकतायाः शक्तिं वर्णयन् सः अवदत् यत् “एकता तादृशं समाजं निर्माति, यत्र सृजनशीलता नवनवप्रयत्नश्च विकसिते स्तः।”
युवान् प्रति उपदेशं दत्वा सः उक्तवान् यत् ते चरमपन्थात् मादकद्रव्यभ्यश्च दूरं तिष्ठेयुः, अद्यापि केचन जनाः पाकिस्तानसमर्थितआतङ्कवादिनां भाषां वदन्ति, ते तत्त्वतः ज्ञातव्याः। सः अवदत्— “देशस्य दृष्टिः जम्मूकश्मीरप्रदेशे निबद्धा अस्ति।” पुलवामाहिंसाया अनन्तरं दृष्टां जनैक्यभावनां स्मरन् सः उक्तवान् यत् “सैषा लचीलताभावना जगतः एकं सन्देशं दत्तवती। अस्माभिः एतत् ऐक्यं रक्षितव्यम्, तद् दुर्बलयितुमिच्छद्भ्यः सावधानं कर्तव्यम्।”
---------------------------
हिन्दुस्थान समाचार