Enter your Email Address to subscribe to our newsletters

भुवनेश्वरम्, 5 नवंबरमासः (हि.स.)।ओडिशाराज्ये अद्य पावनः पर्वः कार्तिकपूर्णिमा इति महती श्रद्धया उत्साहेन च आचर्यते।
राज्यस्य सर्वत्र श्रद्धालवः नदीनां सरोवराणां जलाशयानां च तीरेषु एकत्रीकृत्य लघुनौकानाम् (बोइत) प्रवाहनं कृत्वा ओडिशायाः गौरवमयां समुद्रीपरम्परां स्मृतवन्तः।
अनेकस्थानेषु प्रातःकाले एव भक्तजनाः नदीनां सरसां च तीरेषु पवित्रस्नानं (कार्तिकस्नानम्) कृत्वा मन्दिरेषु पूजाः अर्चनाश्च कृतवन्तः।
ततः परं ते दीपैः पानपत्रैः सुपारीभिः पुष्पैश्च अलंकृताः लघुनौकाः जले प्रवाहितवन्तः।
एताः प्रतीकनौकाः केवलं श्रद्धाभक्त्योः प्रतीकाः न, अपितु ओडिशायाः प्राचीनसमुद्रवैभवस्य सांस्कृतिकविरासतस्य च सम्मानचिह्नानि अपि सन्ति।
एषः पर्वः केवलं धार्मिकश्रद्धायाः प्रतीकः न, किं तु सः स्मारयति तां महासमुद्रीपरम्पराम् यया भारतस्य व्यापारः संस्कृतिश्च जगतः अनेकेषु देशेषु प्रसरितौ आसीताम्।
कटकनगरे प्रातःकाले एव महानदिनद्याः तीरे गदगडियाघाटे सहस्रशः श्रद्धालवः पारम्परिके “बोइतबन्दाण” इत्यस्मिन् अनुष्ठाने सहभागी अभवन्।
ते केलेच्छालाभिः पत्रैः कागजैश्च निर्मिताः लघुनौकाः जले प्रवाहितवन्तः।
एवमेव भुवनेश्वरनगरे लिङ्गराजमन्दिरस्य समीपे स्थिते बिन्दुसागरसरोवरस्थलेऽपि श्रद्धालूनां भीः अभवत्।
ते सूर्योदयात् पूर्वमेव पूजामर्चनं कृत्वा नौकाप्रवाहनं च अकरोत्।
उल्लेखनीयं यत् कार्तिकपूर्णिमा ओडिशायाः समुद्रीइतिहासेन सह सम्बद्धः एकः प्रमुखः पर्वः अस्ति।
एषः तस्य युगस्य स्मरणार्थं आचर्यते यदा प्राचीनकलिङ्गस्य व्यापारीणः — साधव इत्याख्याः — बाली, जावा, सुमात्रा, श्रीलङ्का इत्यादिदेशान् प्रति समुद्रमार्गे यात्रां कुर्वन्ति स्म।
एताः यात्राः केवलं व्यापाराय न, अपि तु भारतीयसंस्कृतेः परम्परायाः च दक्षिणपूर्वएशियादेशेषु प्रचारार्थं अपि आसन्।
यात्रापूर्वं एतेषां समुद्रव्यापारीणां भार्याः विशेषं बोइतबन्दाण नामकं अनुष्ठानं कुर्वन्ति स्म, तासां पतिनां सुरक्षितं सफलं च प्रत्यागमनं प्रति प्रार्थनाम् अपि अकुर्वन्।
शतान्तराणि गतानि सन्त्यपि, ओडियासमाजः अद्यापि तस्याः साहसस्य निष्ठायाः गौरवस्य च भावनां जीवयन् कार्तिकपूर्णिमायाः उत्सवं श्रद्धाभक्त्या आचरति।
---------------
हिन्दुस्थान समाचार