पंचनद धाम्नि कार्तिक पूर्णिमायां लक्षशः श्रद्धालवः अकुर्वन् आस्थावगाहनं जातं भव्यं दीपदानमव
औरैया, 05 नवम्बरमासः (हि. स.)।कार्तिकपूर्णिमायाः पावनसन्दर्भे मंगलवारे दिने पंचनद्दामे श्रद्धाया: सागरः समुत्पन्नः। पंचनदसङ्गमतटे लक्षशः श्रद्धालवः स्नानं कृत्वा पुण्यमासादयन्। अस्य पवित्रस्य पर्वणः अवसरं प्रति उत्तरप्रदेशमध्यप्रदेशयोः विविधजनपदेषु
फोटो


औरैया, 05 नवम्बरमासः (हि. स.)।कार्तिकपूर्णिमायाः पावनसन्दर्भे मंगलवारे दिने पंचनद्दामे श्रद्धाया: सागरः समुत्पन्नः। पंचनदसङ्गमतटे लक्षशः श्रद्धालवः स्नानं कृत्वा पुण्यमासादयन्। अस्य पवित्रस्य पर्वणः अवसरं प्रति उत्तरप्रदेशमध्यप्रदेशयोः विविधजनपदेषुस्थिताः श्रद्धालवः साधवः सन्ताश्च नारीबालकादयश्च सङ्गमस्थानं प्राप्तवन्तः। प्रभाते एव पंचनत्तटे “हर हर गङ्गे” इति जयघोषाः गुञ्जितवन्तः। श्रद्धालुभिः स्नानानन्तरं भगवानं विष्णुं शिवं च सम्पूज्य दीपदानं कृतम्। मान्यता अस्ति यत् पंचनदे कार्तिकपूर्णिमायां स्नानं कृत्वा सर्वपापक्षयः भवति मोक्षश्च लभ्यते।

सायं समये यमुनायाः आरती दीपदानं च भव्यरूपेण आयोजितम्, यस्मिन् सहस्रशः दीपैः पंचनत्तटः आलोकितः अभवत्। धार्मिककार्यक्रमे प्रशासनं पुलिस् च दृढरक्षाव्यवस्था कृतवन्तौ। स्नानघाटेषु गोताखोराः एनडीआरएफ् दलं स्वास्थ्यविभागस्य च कर्मचारिणः अपि सन्नद्धाः आसन्। श्रद्धालूनां न काचित् असुविधा भवेत् इति हेतोः सर्वत्र व्यवस्था कृतासीत्।

पंचनद्दाम्नः समग्रं वातावरणं भक्त्या उत्साहेन च संपूर्णम् अभवत्। श्रद्धालवः दीपदानं कृत्वा विश्वशान्तेः, समृद्धेः, स्वकुटुम्बस्य च मंगलस्य प्रार्थनां अकुर्वन्। एषः कार्तिकपूर्णिमापर्वः श्रद्धाया: आस्थायाः आध्यात्मिकानन्दस्य च अद्भुतः संगमः अभवत्।

---------------

हिन्दुस्थान समाचार