ममताबनर्जिना देशबन्धुचित्तरंजनदासायाः पुण्यतिथौ श्रद्धांजलिः अर्पिता
कोलकाता, 05 नवंबरमासः (हि.स.)। पश्चिमबङ्गराज्यस्य मुख्यमन्त्री ममता बनर्जी बुधवासरे देशबन्धोः चित्तरंजनदासस्य जयन्त्यां तं नत्वा तस्य त्यागस्य एकतायाश्च सन्देशं स्मारयामास। सा देशबन्धुम् भारतस्य स्वाधीनतासङ्ग्रामस्य अग्रणीनेतारं प्रति निर्दिश्य उक्
ममता


कोलकाता, 05 नवंबरमासः (हि.स.)। पश्चिमबङ्गराज्यस्य मुख्यमन्त्री ममता बनर्जी बुधवासरे देशबन्धोः चित्तरंजनदासस्य जयन्त्यां तं नत्वा तस्य त्यागस्य एकतायाश्च सन्देशं स्मारयामास। सा देशबन्धुम् भारतस्य स्वाधीनतासङ्ग्रामस्य अग्रणीनेतारं प्रति निर्दिश्य उक्तवती यत् तस्य जीवनं राष्ट्रहितस्य साम्प्रदायिकसौहार्दस्य च आदर्शः अस्ति। ममता बनर्जी इति ‘एक्स्’ इत्यस्मिन् माध्यमे लिखित्वा उक्तवती — “भारतस्य स्वाधीनतायुद्धस्य अग्रदूतानां मध्ये एकस्य देशबन्धोः चित्तरंजनदासस्य जयन्त्यां सादरं नमः।”

मुख्यमन्त्री अवदत् यत् देशबन्धोः निष्कामदेशभक्तिः केवलं स्वाधीनतासङ्ग्रामं दिशां दत्तवती न, किन्तु नेताजी सुभाषचन्द्रबोसः इत्यादीन् अनेकान् नेतॄन् अपि देशसेवायै प्रेरितवती। सा अपि उक्तवती यत् राष्ट्रकल्याणे तस्य अटूटनिष्ठा, हिन्दूमुस्लिमैक्ये तस्य आस्था, स्वाधीनतायाः प्राप्त्यर्थं तस्य संघर्षः च अद्यापि सर्वेषां प्रेरणास्रोतः अस्ति। स्वाधीनतासङ्ग्रामे महतीं भूमिका निभावन् चित्तरंजनदासः कोलकाता–नगरनिगमस्य महापौरः आसीत्। तस्य समावेशी–राष्ट्रवादस्य चिन्ता अद्यतन–सामाजिक–राजनीतिक–परिस्थितिषु अपि अत्यन्तं प्रासङ्गिकत्वं धारयति।

हिन्दुस्थान समाचार / अंशु गुप्ता