पारादीपे समाचरितः बोइत बंदाण उत्सवः - मुख्यमंत्री अकरोत् ओडिशायाः गौरवशाली समुद्रीनिक्षेपस्य प्रशंसाम्
भुवनेश्वरम्, 5 नवंबरमासः (हि.स.)ओडिशाराज्यस्य मुख्यमन्त्री मोहनचरणमांझी नामकः अद्य पारादीपबन्दरस्थले आयोजिते “बोइतबन्दानोत्सवे २०२५” इत्यस्मिन् भागं गृहित्वा राज्यस्य प्राचीननौवाणिज्यपरम्परायाः आर्थिकप्रगतेः च बन्दराधारितविकासस्य च महत्त्वं प्रतिपा
पारादीपे समाचरितः बोइत बंदाण उत्सवः - मुख्यमंत्री अकरोत् ओडिशायाः गौरवशाली समुद्रीनिक्षेपस्य प्रशंसाम्


भुवनेश्वरम्, 5 नवंबरमासः (हि.स.)ओडिशाराज्यस्य मुख्यमन्त्री मोहनचरणमांझी नामकः अद्य पारादीपबन्दरस्थले आयोजिते “बोइतबन्दानोत्सवे २०२५” इत्यस्मिन् भागं गृहित्वा राज्यस्य प्राचीननौवाणिज्यपरम्परायाः आर्थिकप्रगतेः च बन्दराधारितविकासस्य च महत्त्वं प्रतिपाद्य सशक्तं सन्देशं दत्तवान्।

स्वस्य भाषणे मुख्यमन्त्री अवदत् यत् “बोइतबन्दानं” च “बालियात्रा” च केवलं उत्सवौ न स्तः, अपितु ओडिशाराज्यस्य गौरवशालिनः समुद्रीयइतिहासस्य च साहसशालिनां साधबानां (प्राचीननाविकानां) तेजः प्रतीकौ स्तः। एषा परम्परा अद्यापि ओडियसमाजं प्रेरयति यत् धैर्यसाहसाभ्यां नूतनानि शिखराणि स्प्रष्टुं शक्यन्ते।

सः अवदत् –यत् पारादीपबन्दरं ओडिशायाः प्रगतेः प्रवेशद्वारं राज्यस्य अर्थव्यवस्थायाः “कोणार्कः” इव अस्ति। मुख्यमन्त्रिणा निर्दिष्टम् यत् संवत्सरे २०१५ तस्य बन्दरस्य मालढुलाईक्षमता ७१ मिलियनटनमित्ता आसीत्, या इदानीं २०२५ तमे वर्षे १५० मिलियनटनं प्राप्ता अस्ति।

तेन घोषिता यत्“मैरिटाइम् इण्डियाविजन २०३०” इत्यस्य अन्तर्गतं एषस्य बन्दरस्य क्षमता ३०० मिलियनटनं यावत् वर्धिता भविष्यति, “विकसितभारत २०४७” इत्यस्य लक्ष्येन च ५०० मिलियनटनं यावत् विस्तारः भविष्यति, येन पारादीपं ‘मेगाबन्दर’ रूपेण विकसितं भविष्यति।

मुख्यमन्त्री पुनः अवदत् यत् राज्यसर्वकारः पारादीपबन्दरप्राधिकरणं च संयुक्तरूपेण गञ्जामजिल्लायाः बाहुदामुहाने २१,५०० कोटिरूप्यकानां व्यये नूतनं बन्दरं निर्मास्यतः, तथा च महानदीमुहाने २४,७०० कोटिरूप्यकानां व्यये नौकानिर्माणमरम्मतकेन्द्रं स्थापयिष्यतः। पुरीनगरस्य समीपे च विश्वस्तरीयं “क्रूज्-टर्मिनल्” अपि विकसितं भविष्यति।

सः अवदत् यत् एते परियोजनाः ओडिशायाः वाणिज्यं पर्यटनं च औद्योगिकविकासं च नवदिशां प्रति प्रेरयिष्यन्ति।

मुख्यमन्त्री मांझी उक्तवान् यत् प्रधानमन्त्रिणः नरेन्द्रमोदिनो नेतृत्वे भारतं समुद्रीयवाणिज्ये नूतनयुगे प्रविष्टम् अस्ति। ‘सागरमाला’, ‘गतिशक्ति’, ‘राष्ट्रियलॉजिस्टिक्सनीति’ इत्यादयः योजनाः ओडिशायां बन्दराधारितार्थव्यवस्थां शीघ्रं विकसयन्ति।”

तेनोक्तं यत् “मैरिटाइम् अमृतकालविजन २०४७” अन्तर्गतं भारतस्य सर्वे बन्दराः विश्वस्तरीया भविष्यन्ति।

अन्ये उद्योगकौशलविकासतांत्रिकशिक्षामन्त्री सम्पदचन्द्रस्वाईं नामकः अपि अवदत् यत् राज्यसर्वकारः बन्दराधारितानां उद्योगानां अधोसंरचनायाः रोजगारनिर्माणस्य च कौशलविकासस्य च विषये विशेषं प्राधान्यं दत्तवती अस्ति। पारादीपबन्दरस्य विकासः केवलं ओडिशायाः न, अपि तु सम्पूर्णभारतात् समुद्रीयअर्थव्यवस्थां सशक्तां करोति।

सः अवदत् यत् “पारादीपं केवलं एकं बन्दरं न, अपि तु ओडिशायाः अनन्तसंभावनानां नूतनभारतनिर्माणस्य च शक्तेः प्रतीकः अस्ति।”

जगतसिंहपुरस्य सांसदः डॉ. विभूप्रसादतराई नामकः अवदत् यत् आगामिवर्षेषु पारादीपबन्दरस्य समीपे नूतनानि उद्योग-शिक्षा-परिवहनाधारितपरियोजनाः आरभ्यन्ते, येन जगतसिंहपुरस्य च ओडिशायाः च आर्थिकचित्रं परिवर्तिष्यते।

सः अवदत् यत् “पारादीपस्य सिद्धिः ओडिशायाः गर्वः, भविष्यस्य च आशा अस्ति।”

पारादीपबन्दरप्राधिकरणस्य अध्यक्षः पी. एल्. हरनाध नामकः अवदत् यत् गतचतुर्षु वर्षेषु एषः बन्दरः नूतनानि कीर्तिमानानि स्थापितवान्, स्वस्य पञ्चाशद्वर्षीयसफलतानां सीमां च अतिक्रान्तवान्।

तेन उक्तं यत् “क्षमतावृद्ध्या, व्यापारसुधारणया, कौशलविकासेन च ‘टीम् पारादीप्’ इत्यस्य अथकपरिश्रमेण अद्य एषः बन्दरः देशस्य प्रथमः पोर्ट् जातः अस्ति।”

अनन्तरं जिलाधिकारी जे. सोनल, उपमहानिरीक्षकः डॉ. सत्यजीतनायकः, पारादीपबन्दरस्य उपाध्यक्षः अलेखचरणसाहुः इत्यादयः वरिष्ठाधिकारिणः अपि उपस्थिताः आसन्। समारोहः श्रीसाहोः धन्यवादाभिव्यक्त्या समापितः।

---------------

हिन्दुस्थान समाचार