क्यूएसएशियाविश्वविद्यालयीयमूल्यांकने-2026 दिल्ली विश्वविद्यालयेन 10.7 प्रतिशतं कृता उल्लेखनीयवृद्धिः
नवदिल्ली, 5 नवंबरमासः (हि.स.)।दिल्लीविश्वविद्यालयेन (डीयू) क्यूएस् वर्ल्ड् यूनिवर्सिटी रैंकिंग् – एशिया २०२६ इत्यस्मिन् उल्लेखनीया प्रगतिस्साधिता अस्ति। अस्य विषयस्य सूचना प्रदत्तवन् विश्वविद्यालयस्य कुलपति प्रोफेसरः योगेशसिंहः उक्तवान् यत् गतवर्षे
दिल्ली विश्वविद्यालय (डीयू) के कुलपति प्रो. योगेश सिंह (फाइल फोटो)।


नवदिल्ली, 5 नवंबरमासः (हि.स.)।दिल्लीविश्वविद्यालयेन (डीयू) क्यूएस् वर्ल्ड् यूनिवर्सिटी रैंकिंग् – एशिया २०२६ इत्यस्मिन् उल्लेखनीया प्रगतिस्साधिता अस्ति। अस्य विषयस्य सूचना प्रदत्तवन् विश्वविद्यालयस्य कुलपति प्रोफेसरः योगेशसिंहः उक्तवान् यत् गतवर्षे प्राप्ताः ६१.९ अङ्काः इत्यस्मात् अस्मिन् वर्षे विश्वविद्यालयेन ६८.५ अङ्काः प्राप्ताः, यः १०.७ प्रतिशतस्य उल्लेखनीयः वृद्धिः अस्ति।

ते सर्वेभ्यः शिक्षकेभ्यः, विद्यार्थिभ्यः, विश्वविद्यालयपरिवारस्य च सदस्येभ्यः अभिनन्दनं दत्त्वा अवदन्—“एषः परिणामः अस्माकं शिक्षकानां, विद्यार्थिनां, विश्वविद्यालयपरिवारस्य च संयुक्तपरिश्रमस्य फलम् अस्ति।”

प्रोफेसरः योगेशसिंहः अवदत् यत् दिल्लीविश्वविद्यालयः अधुना एशियाखण्डीयविश्वविद्यालयानां शीर्ष ६.२ प्रतिशतमध्ये गण्यमानः अस्ति, यः अस्य क्षेत्रस्य ९३.८ प्रतिशतसंस्थाभ्यः अग्रे अस्ति। एषःाङ्कः गतवर्षस्य ९१.८ प्रतिशतात् अधिकः इति।

कुलपतिना अपि उक्तं यत्, रैंकिंग्-सूचौ सम्मिलितानां संस्थानानां संख्यायां तीव्रवृद्धिः जातापि, दिल्लीविश्वविद्यालयः एशियायाः शीर्षशतके प्रमुखस्थानं धारयति।

येषु प्रमुखसङ्केतकेषु विश्वविद्यालयेन उल्लेखनीया वृद्धि साधिता, तेषां विषये कुलपतिः अवदत्—अकादमिक-प्रतिष्ठा (Academic Reputation) ९१.१ अङ्कपर्यन्तं वर्धिता, रोजगार-प्रतिष्ठा (Employer Reputation) ८६.१ प्राप्ता, पीएचडी-धारककर्मचारी ९४.७ प्राप्ताः, प्रति-संस्थानं शोधपत्राणि ८७.७ प्राप्तानि। विश्वविद्यालयस्य अन्ताराष्ट्रिय-अनुसन्धान-नेटवर्क् (International Research Network) अंकः अपि ९९.४ पर्यन्तं वर्धितः, यः अस्य विश्वविद्यालयस्य वैश्विकसहकारस्य उच्च-अनुसन्धान-उत्पादकत्वस्य च प्रतीकः अस्ति।

प्रो. योगेशसिंहः अवदत् यत् क्यूएस्-एशिया-रैंकिंग् २०२६ मध्ये अस्य विश्वविद्यालयस्य दृढप्रदर्शनं तस्य अकादमिक-उत्कृष्टता, प्रभावशाली-अनुसन्धानं, वैश्विक-संलग्नता च प्रतिदर्शयति। एषः परिणामः “इन्स्टिट्यूशन् ऑफ् एमिनेंस् (IOE)” इत्यस्य परिकल्पनायाः अन्तर्गतं कृतस्य विकासस्य प्रमाणं च अस्ति।

ते अन्ते उक्तवन्तः यत् “एषः परिणामः एशियायां उच्चशिक्षायाः प्रमुखसंस्थारूपेण दिल्लीविश्वविद्यालयस्य प्रतिष्ठां दृढयति, यः स्वस्य अकादमिक-गाम्भीर्ये, अनुसंधान-गुणायां, अन्ताराष्ट्रिय-प्रासंगिकतायां च प्रसिद्धः अस्ति।”

---------------

हिन्दुस्थान समाचार