Enter your Email Address to subscribe to our newsletters

बेंगळरुनगरम्, 05 नवम्बरमासः (हि.स.)। कर्नाटकप्रदेशस्य कलबुर्गीजनपदे चित्तपुरनगरस्थे आर.एस्.एस्. तथा भीमसेनसेनायाः मध्ये जातस्य नवीनतनावस्य परिप्रेक्ष्ये कलबुर्गी-उच्चन्यायालयपीठस्य आज्ञया बुधवासरसायंकाले बेंगळूरुनगरे शांतिसभायाः द्वितीयः चरणः आयोज्यते। एषा सभा विशेषमहत्त्ववती अस्ति, यतः पथसंचलनस्य अनुमत्यर्थं निर्णायकं परिणामं दास्यति।
उच्चन्यायालयस्य आदेशेन राज्यस्य महाधिवक्ता शशिकिरणशेट्टी एतस्याः सभायाः अध्यक्षता करिष्यन्ति। चित्तपुरघटनां दृष्ट्वा संघस्य पक्षतः आवेदनं दत्तवान् अशोकपाटिलः याचकः सहितः केवलं पञ्चजनाः एव जनपदाप्रशासनद्वारा आमन्त्रिताः सन्ति।
सभायां आर.एस्.एस्. याचकः अशोकपाटिलः, कृष्णजोशी, प्रह्लादविश्वकर्मा, आर.एस्.एस्. अधिवक्ता अरुणश्यामः, वदिराजकडलूर च भागं ग्रहीष्यन्ति। ज्ञायते यत् भीमसेना सहितानि नव अन्यसंघटनानि शान्तिभङ्गाशङ्कया कारणेन सभायां न आमन्त्रितानि। तानि च उच्चन्यायालये आवेदनं न दत्तवन्ति।
सभायां महाधिवक्ता च जनपदाप्रशासनं च संघसमर्थनेतॄणां अधिवक्तानां च लिखितवक्तव्यं स्वीकरिष्यतः। अस्याः शांतिसभायाः प्रतिवेदनस्य आधारेण 07 नवम्बरदिनाङ्के कलबुर्गीउच्चन्यायालयपीठायां अन्तिमश्रवणं भविष्यति, ततः पथसंचलनस्य अनुमत्यां विषये निर्णयः प्रदास्यते।
हिन्दुस्थान समाचार / अंशु गुप्ता