Enter your Email Address to subscribe to our newsletters

-राजनांदग्रामे आयोजितम् लखपति दीदी सम्मेलनम्
राजनांदगांवः/रायपुरम्, 5 नवंबरमासः (हि.स.)।राजनांदगढे स्थिते राज्यीय-उच्चविद्यालय-प्राङ्गणे आयोजिते ‘लखपति दीदी-सम्मेलने’ राष्ट्रस्य उपराष्ट्रपति श्रीमान् सी.पी. राधाकृष्णनः, राज्यपालः श्री रमेन डेका, मुख्यमंत्री श्री विष्णुदेवसायः, विधानसभाध्यक्षः डॉ. रमनसिंहः इत्येते सह अनेके जनप्रतिनिधयः उपस्थिताः अभवन्। अस्मिन् अवसरे उपराष्ट्रपतिना ‘महतारी-वन्दन-योजना’ तथा ‘नियद-नेल्लानार-योजना’ अन्तर्गत ६९ लक्ष १५ सहस्र २७३ हितग्राहकेभ्यः आहत्य ६४७ कोटिः २८ लक्ष ३६ सहस्र ५०० रूप्यकाणि डी.बी.टी. माध्यमेन अन्तरितानि। अस्मिन् अवसरे उपराष्ट्रपतिः राधाकृष्णनः उक्तवान् यत् ‘लखपति दीदी’ आत्मनिर्भरतायाः सम्मानस्य च प्रतीकाः सन्ति। कार्यक्रमं सम्बोधयन् उपराष्ट्रपतिः उक्तवान्— एषः केवलं आयसम्बद्धः कार्यक्रमः नास्ति, अपि तु एषः नारीणाम् आत्मविश्वासस्य समाजे च तासां वर्धमानस्य प्रभावस्य उत्सवः अस्ति। सः उक्तवान् यत् राजनांदगढ-जनपदस्य नारी-सशक्तिकरणस्य उदाहरणं जातः अस्ति, यत्र नार्यः आर्थिकराजनीतिकयोः क्षेत्रयोः अग्रे गच्छन्ति। तस्मिन् सः मुख्यमंत्री विष्णुदेवसायस्य नेतृत्वे नार्यः सशक्तीकरणार्थं प्रवर्तमानानां प्रयत्नानां प्रशंसा कृत्वा उक्तवान् यत् छत्तीसगढराज्यं विद्युत्-उत्पादनस्वास्थ्यशिक्षा-अधोसंरचना-क्षेत्रेषु शीघ्रं प्रगत्यां यतते। उपराष्ट्रपतिः उक्तवान् यत् ‘लखपति दीदी-आन्दोलनं’ दर्शयति यत् यदा नार्यः संगठिताः भवन्ति तदा परिवर्तनस्य कथा स्वयं लिख्यते।
राज्यपालः रमेन डेका अपि उक्तवान् यत् ‘लखपति दीदी-सम्मेलनम्’ केवलं एकं आयोजनं नास्ति, अपि तु आत्मनिर्भर-छत्तीसगढस्य सजीवप्रतिबिम्बम् अस्ति। एतत् सम्मेलनं प्रमाणं यत् ग्राम्यनारीणां श्रमेण संकल्पेन आत्मबलनेन च समृद्धेः नूतनं अध्यायं लिख्यते। सः उक्तवान् यत् अद्य प्रत्येकजिले नार्यः स्वसहायता-समूहैः आर्थिकतया सशक्ताः भवन्ति। बलरामपुरे नार्यः बाड़ी-विकास-विपणनयोः, बस्तरे वनोपजजन्यजैविक-उत्पादननिर्माणे, कोण्डागांव-क्षेत्रे च फूड-प्रोसेसिंग-सिलाई-कढाई-कर्मसु च विशिष्टं योगदानं ददति।
राजनांदगढ-जनपद एव ४० सहस्रं ‘लखपति दीदीनाम्’ अस्ति, यासु २०८ दीदीनां वार्षिकं व्यवसायं ५ लक्षरूप्यकात् अधिकं, २६ दीदीनां १० लक्षरूप्यकात् अधिकं च अस्ति। सः उक्तवान् यत् एते आंकडाः केवलं आर्थिक-सिद्धयः न, अपि तु सामाजिक-परिवर्तनस्य प्रतीकाः सन्ति। प्रत्येक-दीद्या कथा प्रेरणामूलं अस्ति। यदा संकल्पः सामूहिकप्रयत्नश्च संयुज्यते, तदा आत्मनिर्भरता केवलं स्वप्नं न भवति, अपि तु साक्षात् सत्यं भवति।
राज्यपालः पद्मश्री-फूलबासन-बाई-यादव-नामिकानां नारीणां कार्याणां प्रशंसा कृत्वा उक्तवान् यत् तासां प्रयत्नैः नारी-सशक्तिकरणमार्गः अधिकं सुदृढः जातः अस्ति। सः उक्तवान् यत् प्रधानमन्त्रिणः नरेन्द्र-मोदयः नेतृत्वे देशे सर्वत्र नारी-उद्यमिता-स्वरोजगारयोः कृते अनेकाः योजनाः प्रवर्तन्ते, छत्तीसगढराज्येन च ताः योजनाः भूमौ स्थाप्य “सशक्त-भारत-सशक्त-छत्तीसगढ” इति दृष्टान्तः प्रदर्शितः अस्ति।
अस्मिन् अवसरे मुख्यमंत्री विष्णुदेवसायः उक्तवान् यत् सरकारस्य लक्ष्यं प्रदेशे ७ लक्ष ८२ सहस्रं ‘लखपति दीदी’ निर्माणं कर्तुम् अस्ति, यस्मात् अद्यावधि ४ लक्ष ९३ सहस्रं दीदीनां आत्मनिर्भरत्वं प्राप्तम् अस्ति। सः उक्तवान् यत् ‘महतारी-वन्दन-योजना’ अन्तर्गतं ७० लक्ष नारीणां प्रति मासं एकसहस्रं रूप्यकाणां साहाय्यं दीयते। विधानसभाध्यक्षः डॉ. रमनसिंहः उक्तवान् यत् ‘लखपति दीदी-सम्मेलनं’ नारी-शक्तेः अभिज्ञानम् आत्मनिर्भरतेः च उत्कृष्टदृष्टान्तः अस्ति।
तेन अपि पद्मश्री फूलबासनबाई-यादवस्य योगदानस्य प्रशंसा कृता, या नार्यः आत्मनिर्भरतायै प्रेरयति। अस्मिन् कार्यक्रमे स्वास्थ्यमन्त्री श्यामबिहारीजायसवालः, विद्यालयशिक्षामन्त्री गजेन्द्र-यादवः,श्रमकल्याणमण्डलाध्यक्षः योगेशदत्त-मिश्रः, पूर्वसांसदः प्रदीप-गान्धी इत्यादयः अन्ये जनप्रतिनिधयः सह विशालसंख्यायाम् स्वसहायता-समूह-दीदीनः उपस्थिताः आसन्।
-------------------
हिन्दुस्थान समाचार / अंशु गुप्ता