Enter your Email Address to subscribe to our newsletters

राँची, 05 नवम्बरमासः (हि.स.)। गुरूनानकजयंत्याः शुभसन्दर्भे रोटरीक्लब् ऑफ् राँची इत्यनेन बुधवासरे गुरूनानकविद्यालये (पी.पी. कम्पाउण्ड्) स्वास्थ्यपरीक्षणशिविरः आयोजनं कृतम्। एषः शिविरः प्रातः ११.३० वादनात् सायं चतुर्वादनपर्यन्तं सञ्चालितः। अस्मिन् अवसरे डॉ॰ अनिर्बन् सेन्याल् इत्यस्य नेतृत्वे चिकित्सकविशेषज्ञसमूहस्य निरीक्षणेन सर्वेषां श्रद्धालूनां स्वास्थ्यपरीक्षणं कृतम्।
तत्र सामान्यस्वास्थ्यपरीक्षणम्, रक्तदाबमापनम्, मधुमेहपरीक्षणम्, सम्बन्धितपरामर्शः, दन्तपरीक्षणम्, स्वास्थ्यजागरूकतासम्बद्धसेवाश्च विनामूल्यं प्रदत्ताः। रोटरीक्लब् ऑफ् राँची-नामकसंघस्य अध्यक्षः रोटेरियन अमित अग्रवाल् इत्यनेन उक्तम् — “शिविरे प्रायः द्विशतानि जनानि स्वस्वास्थ्यपरीक्षणं कृतवन्तः, लाभं च प्राप्तवन्तः।”
शिविरस्य सफलतायै डॉ॰ अनिर्बन् सान्याल्, डॉ॰ पूर्णिका सान्याल्, अध्यक्षः अमित अग्रवाल्, हरमिन्दर् सिंह्, जसदीप् सिंह्, गौरव् बगरॉय्, रवीन्द्रसिंह् चड्ढा, गुरबीर् सिंह् इत्येषां महत्वपूर्णं योगदानं आसीत्। अस्मिन् अवसरे बहवः जनाः उपस्थिताः आसन्।
हिन्दुस्थान समाचार / अंशु गुप्ता