Enter your Email Address to subscribe to our newsletters

- उत्तराखण्डविधानसभा राष्ट्रीयस्वयंसेवकसंघस्य राष्ट्रनिर्माण-सामाजिकजागरणयोः योगदानं सदने आधिकारिकरूपेण मान्यतां प्रदायमाना देशस्य प्रथमं संवैधानिकसंस्था अभवत्
देहरादूनम्, 05 नवम्बरमासः (हि.स.)। मुख्यमंत्री पुष्करसिंहधामी महोदयः उत्तराखण्डराज्यस्य रजतजयंती-अवसरे विशेषविधानसभासत्रस्य द्वितीये दिने राष्ट्रीयस्वयंसेवकसंघस्य (आर.एस्.एस्.) शताब्दीपूर्त्याः सन्दर्भे संघस्य देशनिर्माणे योगदानं औपचारिकरूपेण प्रशंसयामास।
ते अवदन् यत् “संघस्य एषा तपोमयी यात्रा आत्मगौरवस्य, सामाजिकसमरसतायाः, सांस्कृतिकपुनर्जागरणस्य च दिव्यधारा प्रवाहिनी जाता। अस्य कार्येण देशस्य सर्वेषु कोणे-कोणे राष्ट्रीयचेतनायाः अखण्डज्योतिः प्रज्ज्वलिता, यया राष्ट्रे दिव्या प्रवाहः सृजितः।”
मुख्यमन्त्रिणः एषः वक्तव्यः देवभूमेः उत्तराखण्डविधानसभायाः इतिहासे ऐतिहासिकक्षणरूपेण लिपिबद्धः जातः। राज्यस्थापनायाः पञ्चविंशतिवर्षे पूर्णे सति मुख्यमन्त्रिणा संघस्य राष्ट्रनिर्माणे योगदानम् औपचारिकतया अभिनन्दितम्।
एवं उत्तराखण्डविधानसभा देशस्य प्रथमं संवैधानिकसंस्थानम् जातं, यत् संघस्य राष्ट्रनिर्माण, सामाजिकजागरण तथा सांस्कृतिकपुनर्जागरण सम्बन्धिनं योगदानं सदनमध्ये आधिकारिकमान्यता दत्तवती।
मुख्यमन्त्रिणा धामिना उक्तम् यत् “राष्ट्रीयस्वयंसेवकसंघेन स्वस्य शताब्दीय तपोमय यात्रायाः माध्यमेन भारते सांस्कृतिकपुनरुत्थानार्थं महत् संघर्षं कृतम्। यः भारतः कदाचित् गुलाम्याः मानसिकतायाः ग्रस्तः आसीत्, सः अद्य स्वसांस्कृतिकमूल्येषु, वैज्ञानिको दृष्टिकोणे, परम्परासु च गर्वं अनुभावयति। एष आत्मगौरवभावः संघस्य शताब्दीतपस्यायाः फलरूपेण प्रकटितः।”
ते एतत् अपि अवदन् यत् “देवभूमिः उत्तराखण्डः स्वस्य पञ्चविंशतिवर्षीय विकासयात्रायाम् अनेकान् उत्थान-पतनान् अनुभवितवान्। तथापि राज्यं विकल्परहितसंकल्पेन सदैव प्रगतिपन्थानं अनुसरति। मम विश्वासः अस्ति यत् जनसहयोगेन आगामीवर्षेषु उत्तराखण्डं देशस्य श्रेष्ठराज्यं भविष्यति।”
अस्मिन ऐतिहासिकसंधौ सर्वसदनं एकता-आत्मगौरव-राष्ट्रभक्त्याः भावेन ओतप्रोतं जातम्। विधानसभायां पारितं तत् भावनात्मकं अभिव्यक्तिवचनं केवलं उत्तराखण्डस्य न, अपि तु सम्पूर्णभारतात् संघस्य राष्ट्रसेवाशताब्दीयात्रायाः सम्मानरूपेण स्मरणीयं क्षणं जातम्।
सत्रस्य समापनकाले मुख्यमन्त्रिणा धामिना संघशाखायां गायमानस्य प्रेरकगीतस्य पङ्क्तिभिः स्वं भाषणं समाप्तं कृतम्—
“ये उथल-पुथल उछाल लहर,
पथ से न डिगाने पाएगी,
पतवार चलाते जाएंगे,
मंजिल आएगी, आएगी…” इति
---------------
हिन्दुस्थान समाचार