Enter your Email Address to subscribe to our newsletters

रोहतासम्/गया, 05 नवम्बरमासः (हि.स.)। उत्तरप्रदेशस्य मुख्यमन्त्री योगी आदित्यनाथः बुधवासरे राष्ट्रीयजनतान्त्रिकगठबन्धनस्य (राजग) प्रत्याशीजनानां समर्थनार्थं गया-वरीजगञ्जे तथा सासारामे जनसभाः संबोधितवान्। सः महागठबन्धनं तीव्रतया आक्षिप्य जनान् प्रति समर्थनयाचनां च कृतवान्।
योगी आदित्यनाथः उक्तवान् – “केचन जनाः बिहारस्य युवानां समक्षं परिचयसंकटं सृजितवन्तः। अन्नदाताः कृषकाः आत्महत्यां कर्तुं विवशाः आसन्, तेषां शासनकाले व्यवसाया अपि असुरक्षिता आसन्, महिलाश्च भयभीताः। अधुना ते पुनः वचनेन जनान् मोहयितुं प्रयतन्ते। युष्माभिः स्मर्तवयं यत् गतविंशतिवर्षाणां मध्ये नीतिशकुमारस्य नेतृत्वे बिहारं विकासमार्गे प्रवृत्तम्। विकासाय इच्छाशक्तिः आवश्यकाऽस्ति, सा केवलं राजगस्य मध्ये विद्यते।”
सनातनपर्वेषु सर्वजनसंबन्धःमुख्यमन्त्रिणा योगी-आदित्यनाथेन उक्तम् – “अद्य देवदीपावलिः, यत्र लक्षशः जनाः देवतानां स्वागताय दीपप्रज्वलनं कुर्वन्ति। एतेषु पर्वेषु प्रजापतिसमाजः मृददीपनिर्माणेन लाभं लभते, दीपे दग्धं तेलं कृषकानाम् उपकारकं भवति। अस्माकं सनातनपर्वाः सर्ववर्णसमाजस्य एकत्वं, स्वावलम्बनं च पोषयन्ति।”
स्नेहा हत्याकाण्डे विशेष-अनुसन्धानदलस्य स्थापनास्वीयभाषणे योगी आदित्यनाथः सासारामस्य स्नेहा-हत्याकाण्डस्य संदर्भे विशेष-अनुसन्धानदलं (एसआईटी) स्थापयितुं घोषयत्। सः उक्तवान् — “वाराणस्यां अध्ययनं कुर्वन्त्या एकस्याः कन्यायाः दुःखदुर्घटना जाता। तस्या न्यायाय विशेषदलं गठितं भविष्यति, अपराधिनः कठिनतया दण्डं प्राप्स्यन्ति।”
अन्ते योगी आदित्यनाथः बिहारभूमिं प्रणम्य उक्तवान् — “एषा भूमिः गौरवशालिनी। अत्रैव जनकात्मजा सीता जाता, अत्रैव भगवान् बुद्धः ज्ञानं प्राप्तवान्। अयं प्रदेशः जैनतीर्थङ्करं महावीरं, कविं विद्यापतिं, राष्ट्रपतिं डॉ॰ राजेन्द्रप्रसादं, लोकनायकं जयप्रकाशनारायणं, जननायकं कर्पूरीठाकुरं, भोजपुरीगायिकां शारदा सिन्हां च उत्पादितवान्। अतः यूयं गौरवपरम्परायाः अधिकारी अस्मि।”
हिन्दुस्थान समाचार / अंशु गुप्ता