अमेरिकादेशे लुइसविले-विमानपत्तनस्य समीपे यूपीएस-कार्गोविमानस्य दुर्घटना
वाशिंगटनम्, 05 नवम्बरमासः (हि.स.)। अमेरिकादेशे त्रिचालकदलसमेतं यूपीएस- कार्गोविमानं दुर्घटनायाम् आपन्नम्। संघीयविमानप्रशासनसंस्था (एफएए) इत्यस्य समाचारानुसारं यूपीएस (एमडी–11) इत्याख्यं विमानं केण्टकी-राज्ये स्थितस्य लुइसविले-विमानपत्तनस्य समीपे उद
ada53304c5b9e4a839615b6e8f908eb6_6070441.jpg


वाशिंगटनम्, 05 नवम्बरमासः (हि.स.)। अमेरिकादेशे त्रिचालकदलसमेतं यूपीएस- कार्गोविमानं दुर्घटनायाम् आपन्नम्। संघीयविमानप्रशासनसंस्था (एफएए) इत्यस्य समाचारानुसारं यूपीएस (एमडी–11) इत्याख्यं विमानं केण्टकी-राज्ये स्थितस्य लुइसविले-विमानपत्तनस्य समीपे उद्गमनानन्तरमेव पतितम्। एफएए तथा राष्ट्रीयपरिवहनसुरक्षापरिषद् (एनटीएसबी) इत्युभे संस्थे अस्य दुर्घटनाया: अनुसंधानम् आरब्धवन्तः स्तः।

सीएनएन इत्याख्यवार्तासंस्थाया: प्रतिवेदनेन, यूपीएस-विमानं (उडानसंख्या–2976) स्थानीयसमयेन सायं पञ्चवादने परं दुर्घटनायाम् आपन्नम्। तत् विमानं होनोलुलु–डैनियल् के. इनौये–अन्ताराष्ट्रीय-विमानपत्तने प्रति गच्छन्नासीत्। एफएए इत्यनेन उक्तं यत् एनटीएसबी एव अस्य अन्वेषणस्य नेतृत्वं करिष्यति।

यूपीएस-संस्थायाः वक्तव्ये निर्दिष्टं यत् विमानमध्येषु चालकत्रयं आसीत्। अद्यापि तेषां मध्ये केचन आहताः वा मृताः इति प्रमाणं न प्राप्तम्। लुइसविल् महानगरारक्षकविभागः (एलएमपीडी) अन्यैः संस्थाभिः सह दुर्घटनास्थले गच्छति स्म। तैः उक्तं यत् केचन जनाः आहताः स्युः इति सम्भाव्यते।

सीएनएन इत्यस्य दृश्यकाले दृश्यते यत् लुइसविल्-मुहम्मद-अली-अन्ताराष्ट्रीय-विमानपत्तनस्य टर्मैक्-समीपात् धूम्रमेघस्य विशालः गुच्छः उद्गच्छति। अयं विमानपत्तनः यूपीएस-संस्थायाः प्रमुखकेन्द्रम् अस्ति, यत्र ५० लक्ष-वर्गफुट् क्षेत्रं व्याप्य १२,००० कर्मकाराः कार्यं कुर्वन्ति। आरक्षक-विभागेन उक्तं यत् विमानपत्तनस्य पञ्च-मील-परिधिः सुरक्षितः कृतः, स्टूजस्–क्रिटेन्डन् मध्ये ग्रेड्-लेन मार्गः अनिश्चितकालं यावत् निषिद्धः भविष्यति।

मैक्डॉनेल् डगलस् एमडी–11एफ नामकं कार्गोविमानं मूलतः मैक्डॉनेल् डगलस्-संस्थया निर्मितं, अनन्तरं बोइङ्-संस्थया उत्पादितं च। अस्य प्रयोगः फेडेक्स एक्सप्रेस, लुफ्थांसा कार्गो, यूपीएस एयरलाइंस इत्यादिभिः मुख्यतः वस्तुवहनार्थं क्रियते। एषः दुर्घटनाग्रस्तः विमानः 1991 तमे वर्षे निर्मितः आसीत्। बोइंग-संस्थाया: अनुसारं एतत् विमानं अधिकतमं ६,३३,००० पाउण्ड्-भारं वहतुं, च ३८,००० गैलन्-ईंधनं धारणं च कर्तुं समर्थम्।

यूपीएस एयरलाइंस इत्येषा लुइसविल्–केण्टकी–आधारितम् अमेरिकायाः प्रमुखं भारवहनविमानसंस्थानम् अस्ति। मात्रा-दृष्ट्या सा जगतः महत्तमा मालवाहक-विमानसंस्थाभ्यः एकम् अस्ति। सा ८१५ गन्तव्येषु विश्वव्यापि उड्डयनं करोति।

हिन्दुस्थान समाचार / अंशु गुप्ता