Enter your Email Address to subscribe to our newsletters

चंडीगढम्, 5 नवंबरमासः (हि.स.)। पंजाबराज्यस्य मुख्यमन्त्री भगवन्तमान् केन्द्रसरकारस्य आलोचनाम् कृत्वा उक्तवान् यत् — “यदा भारत–पाकिस्तानयोः मध्ये क्रिकेट–क्रीडा सम्पन्ना भवति, तदा करतारपुर–साहिब–सङ्ग्रहमार्गः अपि उद्घाटितः भवेत्। अस्य उद्घाटनेन श्रद्धालुभ्यः सुविधा भविष्यति, च द्वयोः राष्ट्रयोः मध्ये व्यापारः, रोजगारः, पारस्परिकविश्वासश्च नूतनमार्गेण विकसिताः भविष्यन्ति।”
कांग्रेसाध्यक्षराजा–वडिङ्-नामकस्य धर्म–जातिसम्बद्धवाक्यप्रसङ्गे सः उक्तवान् — “अहं अस्मिन् विषयि किंचित् अपि वक्तुं न इच्छामि। अहं गुरोः गृहम् आगतः अस्मि। ये जनाः एतादृशभावनाम् धारयन्ति, ते स्वयमेव अनुभविष्यन्ति यत् ते विपथगामिनः सन्ति। अहं तेषां कृते अपि प्रार्थये यत् परमात्मा तान् बोधं मार्गदर्शनं च दद्यात्।”
मुख्यमन्त्रिणा अपि उक्तं यत् — “पंजाबः गुरूणां, पीराणां, शहीदानां च भूमि अस्ति। मम प्रार्थना अस्ति यत् परमात्मा अस्य भूमौ वसतां जनान् बोधं, बलं, सत्यपथेन गन्तुं शक्तिं च प्रदद्यात्। गुरु–साहिबेन यः दायित्वम् अस्मभ्यं दत्तम्, तस्य पालनाय सत्यनिष्ठां शक्तिं च वयं लभेम।”
---------------
हिन्दुस्थान समाचार / अंशु गुप्ता