Enter your Email Address to subscribe to our newsletters


पटना, 06 नवम्बरमासः (हि.स.)। बिहारराज्यस्य विधानसभानिर्वाचनस्य प्रथमचरणे अद्य प्रातः नववादनपर्यन्तं १३.१३ प्रतिशतं मतप्रदानं सम्पन्नम्। अस्मिन् चरणे अष्टादश जनपदेषु एकशतैकविंशतिः (१२१) विधानसभामण्डलस्थानानि अन्तर्भवन्ति, यत्र प्रातः सप्तवादनात् एव मतदानप्रक्रिया आरब्धा। एतेषु सन्दर्भेषु भारतस्य गृहसहकारितामन्त्री अमितः शाहः बिहारमतदातृभ्यः आवाहनं कृतवान् — “भवतः एकैकं मतं बिहारं प्रति सुशासनस्य रक्षणाय, आत्मनिर्भरविकासस्य मार्गस्य प्रशस्तये च अत्यन्तं आवश्यकम्। युवानः विशेषतया अभिलेख्यसंख्यया मतदानं कुर्वन्तु। अस्य निर्वाचनस्य माध्यमेन घुस्पेठकान्, नक्सलीयान् च आश्रयदातारः ये देशस्य सुरक्षया सह क्रीडन्ति, तान् शिक्षां ददाम।” ते एवमपि अवदन् यत्, “भवतः मतं बिहारस्य गौरवस्य पुनः प्रतिष्ठापनाय, आधुनिकशिक्षायाः सर्वजनप्रवेशाय, दरिद्रकल्याणाय, युवानां रोजगारसंधानाय च मुख्यं साधनं भविष्यति।”पूर्वं केन्द्रीय मन्त्री राजीवरञ्जनः (ललन सिंहः) अपि पटने स्वमतं प्रदत्तवान्। सः उक्तवान् — “एषः लोकतन्त्रस्य उत्सवः। अस्माकं सूत्रं भवेत् ‘प्रथमं मतदानं, अनन्तरं भोजनम्।’ नीतीशकुमारस्य नेतृत्वे पुनः एनडीए सरकारं स्थापयिष्यति।”
तदनन्तरं राजद्-नेता महागठबन्धनस्य मुख्यमन्त्रिपदस्य प्रत्याशी तेजस्वी यादवः स्वपत्नी राजश्री यादवया सह पटने मतदानकक्षं गत्वा मतं दत्तवान्। सः पत्रकारैः उक्तवान् — “चतुर्दशे नवम्बरमासे नवी सरकारं स्थास्यति। अस्माकं विजयः निश्चितः।”लखीसराय-मण्डलस्य बड़हिया क्षेत्रे मतदानं कृत्वा केन्द्रीय मन्त्री गिरिराजसिंहः उक्तवान् — “यदि भारतदेशे मन्दिरः न निर्मीयेत, तर्हि पाकिस्तानदेशे निर्माणं भविष्यति।” सः लालू यादवं, तेजस्वी यादवं, राहुलगान्धिं च लक्ष्यीकृत्य कटुवचनानि अपि उक्तवान्। सः उक्तवान् — “यः कश्चन बुर्काधारी व्यक्ति दृश्यते, तस्य परीक्षणं करणीयम्।” दरभङ्गायाः विधानसभास्थानात् भाजपा-प्रत्याशी, बिहारमन्त्री च संजयसरावगी स्वमतं दत्त्वा अवदत् — “येषां शासनं प्राप्तुं न शक्यते, ते असत्यनिर्वचनप्रत्ययैः जनतां भ्रमयन्ति। किन्तु बिहारजनता एतत् बोधति, सा प्रधानमंत्रीमोदी, मुख्यमंत्रीनीतीशकुमार, राजग-संघटनं च प्रति स्थिरा अस्ति। राजगः भारीमतबहुमतेन विजयी भविष्यति।”
बिहारस्य उपमुख्यमन्त्री विजयकुमारसिन्हा अपि लखीसरायात् मतदानं कृत्वा उक्तवान् — “अद्य लोकतन्त्रस्य महापर्वः अस्ति। छठमहापर्वस्य परं सर्वे बिहारवासी अस्मिन् लोकतन्त्रपर्वे सहभागी भवन्तु। यथा छठपूजां सौहार्द्रभावेन कुर्मः, तथा एषः मतदानपर्वः अपि एकात्मभावेन आचर्यः। अयं समयः यत्र बिहारं पुनः गौरवयुक्तं कर्तुं, कलङ्कितकर्तृभ्यः विमोचयितुं च आवश्यकम्।” पटनायाः भाजपा-प्रत्याशी नितिनः नवीनः दीघास्थिते मिलर-उच्चविद्यालये मतदानं कृतवान्। मोकामा क्षेत्रात् राजद्-प्रत्याशी वीणा देवी, पूर्वसांसद् सूरजभानसिंहश्च मतदानात् पूर्वं पूजां कृत्वा उक्तवन्तौ — “अद्य महोत्सवः अस्ति। सर्वे बिहारजनाः भ्रातृभावं प्रदर्शयन्तु — ‘प्रथमं मतदानम्, अनन्तरं भोजनम्।’”समस्तीपुर-विधानसभायाः कर्पूरीग्रामे स्थिते राजकीय-प्राथमिक-विद्यालये केन्द्रीय कृषिराज्यमन्त्री रामनाथठाकुरः अपि स्वमतं दत्तवान्। सर्वत्र मतदानं शान्तिपूर्वकं, उत्साहेन च प्रवृत्तम्।
---------------
हिन्दुस्थान समाचार / अंशु गुप्ता