Enter your Email Address to subscribe to our newsletters


प्रयागराजः, 06 नवंबरमासः (हि.स.)। श्रीमथुराप्रसादसरस्वतीशिशुमन्दिरे गौसपुरे नवावा कडाक्षेत्रे कौशाम्बीजिलायां शिक्षामनुभवमाना षष्ठकक्षायाः मेधावी छात्रा अल्का विश्वकर्मा इत्यस्या नाम्ना विदुषी सरस्वतीप्रतिभाखोजपरीक्षायां उत्कृष्टं प्रदर्शनं कृत्वा प्रान्तस्तरे तृतीयस्थानं प्राप्तवती अस्ति। तया स्वपरिवारस्य, विद्यालयस्य, प्रदेशस्य च गौरवं वर्धितम्। इत्यस्य समाचारं गुरुवासरे विद्यालयस्य प्रबन्धकः सुरेन्द्रकुमारत्रिपाठी नामकः निवेदितवान्।
ते अवदन् यत् — विद्यार्थिनां प्रतिभां निखातुं ताञ्च प्रोत्साहितुं च आयोजितायां अस्यां कठिनायां प्रतियोगितायां अल्कायाः लग्नता परिश्रमश्च कारणं सञ्जातम्, येन सा एतत् उच्चस्थानं प्राप्तवती। अस्मिन् परीक्षायां विविधानां जनपदानां सहस्रशः छात्राः छात्र्यश्च सहभागीभूताः आसन्, तेषां मध्ये अल्काया शीर्षत्रयस्थाने स्थानप्राप्त्या असाधारणशैक्षणिकक्षमता प्रदर्शिता।
प्रबन्धकेन उक्तं यत् — सरस्वतीप्रतिभाखोजपरीक्षा २०२५ तमे वर्षे फरवरीमासे सम्पन्ना आसीत्, अस्याः परीक्षायाः परिणामः अधुना प्राप्तः। तस्मिन् परिणामे विद्यालयस्य छात्रा अल्का विश्वकर्मा प्रान्ते तृतीयस्थानं प्राप्तवती। एषा सिद्धिः न केवलं अल्काया उज्ज्वलभविष्यस्य संकेतं ददाति, किन्तु अन्यानपि छात्रान् कठोरपरिश्रमे प्रेरयति।
ते अस्याः सिद्ध्याः विषये आनन्दं व्यक्त्वा उक्तवन्तः यद्“अल्का प्रारम्भात् एव परिश्रमी प्रतिभासम्पन्ना च छात्रा आसीत्। अस्याः सफलता विषये अस्माभिः गर्वः अनुभूयते। अस्याः उज्ज्वलभविष्याय शुभकामनाः।’’
विद्यालयस्य प्रधानाचार्यः धर्मेन्द्रकुमारः उक्तवान् — “अल्कया एतत् प्रमाणीकृतं यत् दृढसंकल्पेन अथकप्रयासेन च किमपि लक्ष्यं साध्यं भवति। अस्याः सफलता विद्यालयस्थेभ्यः अन्येभ्यः भैयाभगिनिभ्यः प्रेरणास्रोतः अस्ति।’’
विद्यालयस्य सहव्यवस्थापकः डॉ. अनूपकुमारः अपि सर्वान् छात्रान् देशस्य स्थलसेनानायकस्य नवीनोद्बोधनस्य स्मरणं करावितवान्, यत्र तेन उक्तं — “मम गौरवम् अस्ति यत् अहम् अपि सरस्वतीशिशुमन्दिरस्य विद्यार्थी आसीत्।” अल्का अपि कदाचित् एवं शिशुमन्दिरस्य नाम गौरवयिष्यति। अद्य विद्यालये हर्षोत्सवः वातावारणं दृश्यते स्म।
तथा छात्रा अल्का विश्वकर्मा स्वसफलतायाः श्रेयः स्वस्य शिशुमन्दिरस्य समस्ताचार्येभ्यः, मातापित्रोश्च अर्पितवती। अस्याः उपलब्ध्याः प्रसङ्गे विद्यालये उपस्थिताः आचार्यगणः — चन्द्रदत्तः, शीतलाशरणअवस्थी, दिलीपसेनः, विजयतिवारी, कल्पना, दिव्या, कोमल, सुचेता, रेखा च — समस्ते भैयाभगिनिभिः सह अल्कां अभिनन्द्य हर्षं व्यक्तवन्तः।
---------------
हिन्दुस्थान समाचार