Enter your Email Address to subscribe to our newsletters

लखनऊ, 06 नवंबरमासः (हि.स.)ख्वाजामुईनुद्दीनचिश्तीभाषाविश्वविद्यालयेन लखनऊस्थे विद्यार्थिनां हितदृष्ट्या एकं महत्वपूर्णं निर्णयं कृतम्। विश्वविद्यालयेन परीक्षापत्रपूरणस्य अन्तिमतिथिः नवम्बरमासस्य दशमदिनं यावत् विस्तारिताऽस्ति। ये विद्यार्थी नवम्बरमासस्य षष्ठदिनात् पूर्वं परीक्षाफार्म् न भरितवन्तः, ते अधुना ५०० रूप्यकाणां विलम्बशुल्केन सह दशमदिनं यावत् फार्म् समर्पयितुं शक्नुवन्ति।
उपपरीक्षानियन्त्रकः डॉ. अताउर्रहमान् आज्मी इत्याख्यः अवदत् यत् एषः निर्णयः विद्यार्थिनां हितार्थं स्वीकृतः, यतः कोऽपि विद्यार्थी परीक्षा अवसरात् वञ्चितः न भवेत्। तेन एतदपि स्पष्टीकृतम् यत् निर्दिष्टसमयात् अनन्तरं कस्यापि स्थितौ परीक्षाफार्म् स्वीक्रियः न भविष्यति, अस्य पूर्णदायित्वं तस्य तस्य छात्रस्य एव भविष्यति।
परीक्षानियन्त्रणकार्यालयेन सर्वान् संकायाध्यक्षान्, विभागाध्यक्षान्, विषयप्रभारिणः शिक्षकाश्च निवेदितम् यत् एषा सूचना तैः स्वस्वस्तरे सर्वेषां विद्यार्थिनां कृते समयेन प्रेषयितव्या, येन सर्वे विद्यार्थी समये परीक्षाफार्म् पूरयितुं शक्नुवन्ति।
हिन्दुस्थान समाचार