Enter your Email Address to subscribe to our newsletters

- बिहारस्य प्रत्येकं बालः परिस्थितिभिस्समं योद्धुं जानीते तदेव तदीयं बलम् - बिहारस्य युवसु संघर्षस्य क्षमता शीक्षितुं बुभूक्षा उभेऽपि असाधारणे
पटना, 06 नवम्बरमासः (हि.स.)।केंद्रीयगृहसचिवः अमितशाहो बिहारराज्यस्य युवानां मेधासामर्थ्यं प्रशंस्य महद्वचनं प्रदत्तवान्। एकस्मै दूरदर्शनपटलाय प्रदत्ते संवादे सः अवदत् — “वैज्ञानिकदत्तांशस्य आधारेण अहं निश्चयेन वदामि यत् बिहारराज्यस्य यूनां बुद्ध्यङ्कः प्रायः विश्वे सर्वाधिकः अस्ति।”
शाहोऽवदत् यत् “बिहारराज्येन सदा देशाय नेतृत्वदायिनः पुरुषाः दत्ताः। राजनीति–क्षेत्रे, प्रशासन–क्षेत्रे, शिक्षायाः क्षेत्रे च यः सर्वोच्चस्थानं प्राप्नोति, तस्मिन् अपि बिहारस्य योगदानं अतुलनीयम् अस्ति। यदि देशस्य कश्चन प्रदेशः सर्वाधिकान् IAS, IPS, चिकित्सकान्, अभियन्तॄन् च उत्पादितवान् अस्ति, सः प्रदेशः केवलं बिहारः।”
गृहसचिवेन अपि उक्तं यत् “बिहारस्य युवानां मध्ये संघर्षशक्ति: तथा शिक्षायाम् उत्कण्ठा च असाधारणा अस्ति।” एषा विशेषता सः बिहारभूमेः संस्कारः च इति अवदत्। सः पुनः अवोचत् — “अत्र प्रत्येकः बालकः परिस्थितिभ्यः योद्धुं जानाति, एषा एव तस्य महान् शक्तिः।”
अस्य वक्तव्यस्य विषये राजनैतिकवृत्तेषु चर्चाः प्रवृत्ताः। एनडीए–शिबिरस्य नेतारः एतत् वक्तव्यं “बिहार–गौरवस्य प्रतीकं” मन्यन्ते, विपक्षदलाः तु वदन्ति — “एषः युवानां प्रति चुनावकाले आकर्षणाय कृतः प्रयासः।”
जदयू–दलस्य वरिष्ठनेता अवदत् — “अमितशाहेन यत् उक्तं तत् सत्यं, बिहारस्य युवानां मेधा कस्यचित् अपि तुल्यं न।”राजद–दलस्य प्रवक्ता तु उपहासेन उक्तवान् — “यदि भाजपा–दलाय बिहारस्य युवानां विषये एतावती चिन्ता अस्ति, तर्हि रोजगाराय ठोसः प्रयासः करणीयः।”
बिहारस्य युवानः कमलेशः, मिथिलेः, अजीतः, नीरजः, अतुल्यः इत्यादयः शाहस्य वक्तव्यं गर्वेन स्वीक्रियन्ते। सामाजिकमाध्यमेषु अपि अनेकाः युवानः लिखितवन्तः — “अमितशाहेन यत् उक्तं, तत् प्रत्येकबिहारीजनस्य हृदयस्य वाणी अस्ति। अवसरः एव आवश्यकः, यतः बिहारस्य युवा न केवलं देशं, किन्तु जगदपि परिवर्तयितुं शक्नुवन्ति।”
विशेषज्ञाः अपि मन्यन्ते यत् एतद्वक्तव्यं बिहारस्य बौद्धिक–परम्परायाः मान्यता–प्रदर्शनम् अस्ति।समाजशास्त्री रंगनाथतिवारी इत्याख्यः अवदत् यत्“बिहारराज्यस्य सामाजिकसंरचना एव बालकान् शीघ्रं परिपक्वान् करोति। कठिनजीवनस्य अनुभवेन तेषां मनसि दृढता च विश्लेषण–शक्ति च वर्धते।”
एतत् अमितशाहस्य वक्तव्यं तस्मिन्नेव समये आगतम्, यदा बिहारराज्ये चुनावी–परिस्थितिः उष्णा अस्ति, तथा युवा–मतदातॄणां भूमिका निर्णायकत्वं प्राप्नोति।
राजनैतिकविश्लेषकः वरिष्ठपत्रकारः च लवकुमारमिश्रः इत्याख्यः अवदत् यद्“एतद्वचनं केवलं प्रशंसा न, अपितु युवानां प्रति संदेशः अपि अस्ति यत् देशराजनीत्यां तेषां योगदानं सर्वाधिकं महत्त्वपूर्णम्।”
अमितशाहस्य एषः अभिप्रायः बिहारराज्यस्य आत्मगौरवं वर्धयति — नैर्वाचनीयवक्तव्यं वा सत्यस्य स्वीकृतिः वा, यथाभवतु, किं तु बिहारस्य युवानां बुद्धिमत्ता तथा संघर्षशीलता इत्येतयोः विषये राष्ट्रिय–मान्यता अधुना प्राप्ता इति निःसन्देहं।
हिन्दुस्थान समाचार