Enter your Email Address to subscribe to our newsletters



वाराणसी,06 नवम्बरमासः (हि.स.)।उत्तरप्रदेशस्य मुख्यमंत्री योगीआदित्यनाथः स्वस्य द्विदिवसीयवाराणसी–भ्रमणे अन्तिमदिने गुरुवासरे काश्यां कोतवाल–बाबा–कालभैरवस्य तथा काशिपुराधिपतेः श्रीविश्वनाथ–महादेवस्य दरबारयोः उपस्थितिं कृतवान्। मुख्यमन्त्रिणा उभयत्र मन्दिरेषु विधिविधानपूर्वकं मन्त्रौच्चारणमध्येन दर्शनं पूजनं च कृतं, प्रदेशस्य राष्ट्रस्य च लोककल्याणं सुखशान्तिं च प्रार्थितवान्।
प्रथमं सः कालभैरवमन्दिरे दर्शनपूजनं कृतवान्। मन्दिरे आगमन–निर्गमनसमये तत्र उपस्थिताः श्रद्धालवः “हर हर महादेव” इति घोषं कृत्वा मुख्यमन्त्रिणः स्वागतं कृतवन्तः। मुख्यमंत्री अपि हस्तान्जलिं कृत्वा श्रद्धालूनां प्रति नम्रतया अभिवादनं कृतवान्।
ततः सः काशीविश्वनाथमन्दिरं प्रति अगच्छत्। तत्र मन्दिरस्य गर्भगृहे षोडशोपचारविधिना पूजनं कृत्वा भगवान्–विश्वनाथस्य पावनं ज्योतिर्लिङ्गं अभिषिक्तवान्, आरतीं च कृतवान्। अस्मिन् समये उभयमन्दिरयोः तथा तेषां मार्गेषु सुरक्षा–व्यवस्था व्यापकतः स्थापिताः आसन्।
एतस्मात् पूर्वं मुख्यमंत्री बुधवासरस्य सायंकाले वाराणसीं आगतः। वाराणसीदौरे सः देवदीपावलिपर्वणः शुभारम्भं नमोघाटे प्रथमं दीपं प्रज्वाल्य कृतवान्। तस्य सह पर्यटनमन्त्री जयवीरसिंहः, राज्यमन्त्री रविन्द्रजायसवालः, विधायकः डॉ॰ नीलकण्ठतिवारी, जिलापञ्चायतेः अध्यक्षः पूनम्मौर्या, महापौरः अशोकतिवारी च अपि दीपप्रज्वलनं कृत्वा मातृगङ्गां प्रणम्य सम्मानं कृतवन्तः।
ततः सर्वे विशिष्टातिथयः क्रूज़्–यानमारुह्य मातृगङ्गायाः आरतीं दृष्ट्वा घाटेषु सुषोभितां देवदीपावलिं च अद्भुतं दृश्यं साकं अवलोकितवन्तः।
---------------
हिन्दुस्थान समाचार