छत्तीसगढ़स्य मुख्यमंत्री सायोऽद्य   ओडिशाभ्रमणे
रायपुरम् 6 नवंबरमासः (हि.स.)।छत्तीसगढराज्यस्य मुख्यमंत्री विष्णुदेवसायः गुरुवासरे ओडिशाराज्यस्य भ्रमणे भविष्यति। सः नुआपाडा–विधानसभोपनिर्वाचनक्षेत्रे जनसभां संबोधयिष्यति। अस्मिन् अवसरि सः भारतीयजनतापक्षस्य प्रत्याशी जयढोलकियस्य समर्थनाय जनसभां करिष
मुख्यमंत्री विष्णु देव साय फाइल फाेटाे


रायपुरम् 6 नवंबरमासः (हि.स.)।छत्तीसगढराज्यस्य मुख्यमंत्री विष्णुदेवसायः गुरुवासरे ओडिशाराज्यस्य भ्रमणे भविष्यति। सः नुआपाडा–विधानसभोपनिर्वाचनक्षेत्रे जनसभां संबोधयिष्यति। अस्मिन् अवसरि सः भारतीयजनतापक्षस्य प्रत्याशी जयढोलकियस्य समर्थनाय जनसभां करिष्यति।

मुख्यमन्त्रिणः कार्यक्रमानुसारं सः प्रातः ११.४५ वादने हेलिकॉप्टरेण नुआपाडां प्राप्स्यति। ततः सः अपराह्णे १२.३० वादनात् १.३० वादनपर्यन्तं आयोजितसभायां सहभागी भविष्यति। कार्यक्रमसमाप्तेः अनन्तरं मुख्यमंत्री अपराह्णे २.४५ वादने पुलिसग्राउण्ड–उदग्रविमानस्थानकं प्रत्यागमिष्यति।

हिन्दुस्थान समाचार