लोकतंत्रम् अस्माकम् अधिकारः एव न ,दायित्वमपि, पूर्वं मतदानं पुनर्जलपानम् : नीतीश कुमारः
पटना, 6 नवंबरमासः (हि.स.)।बिहारराज्यस्य मुख्यमन्त्री नीतिशकुमारः अद्य स्वगृहराज्ये नालन्दा–जिल्लायां बख्तियारपुर–प्रदेशे स्थिते मञ्जूसिंहा प्रोजेक्ट गर्ल्स हायर सेकण्डरी स्कूल इत्यस्मिन् प्रथमचरणस्य विधानसभाचुनावेषु स्वस्य मतं दत्तवान्। अवसरविशेषे
नीतीश कुमार मतदान करने के बाद


पटना, 6 नवंबरमासः (हि.स.)।बिहारराज्यस्य मुख्यमन्त्री नीतिशकुमारः अद्य स्वगृहराज्ये नालन्दा–जिल्लायां बख्तियारपुर–प्रदेशे स्थिते मञ्जूसिंहा प्रोजेक्ट गर्ल्स हायर सेकण्डरी स्कूल इत्यस्मिन् प्रथमचरणस्य विधानसभाचुनावेषु स्वस्य मतं दत्तवान्। अवसरविशेषे सः अवदत् — “लोकतन्त्रं केवलं अस्माकं अधिकारः न, किन्तु दायित्वमपि अस्ति। अद्य बिहारराज्ये प्रथमचरणस्य मतदानम् प्रवर्तमानम्। सर्वे मतदातारः स्वस्य मताधिकारस्य प्रयोगं कुर्वन्तु। मतदानं कुर्वन्तु, अन्यानपि प्रेरयन्तु। ‘प्रथमं मतदानं, ततः जलपानम्’ इति स्मरन्तु।”

अन्यस्मिन् पक्षे बिहारस्य उपमुख्यमन्त्री तथा तारापुरक्षेत्रात् भारतीयजनतापक्षस्य प्रत्याशी सम्राटचौधरी अपि मुङ्गेरनगरे स्वमतं दत्तवान्। मतदानानन्तरं सः मतदातॄन् सम्बोध्य अवदत् — “यूयं सर्वे बहुसंख्येन मतदानं कुरुत, यथा बिहारराज्यस्य प्रगतिर्निश्चिता भवेत्।”

तस्मिन् अपि विश्वासः व्यक्तः यत् वर्तमानं एनडीए शासनं पुनः सत्ता–स्थाने आगमिष्यति। सः अवदत् — “नीतीशकुमारजी अस्माकं ‘मुखिया’ सन्ति, भविष्येऽपि त एव भविष्यन्ति।”

अधुना बिहारराज्ये प्रथमचरणस्य चुनावे मतदानं प्रवर्तमानम् अस्ति। एकशतैकविंशतिधि (121) आसनेषु प्रातः सप्तवादनात् मतदानं आरब्धम्। प्रातः नववादनपर्यन्तं १३.१३ प्रतिशतं मतदानं अभिलिखितम्। सहरसाजिलायां सर्वाधिकं १५.२७ प्रतिशतं मतदानं प्राप्तम्, ततः अनन्तरं बेगूसराय (१४.६) तथा मुजफ्फरपुर (१४.३८) इत्येतयोः स्थानयोः अधिकं मतदानं दृष्टम्।

---------------

हिन्दुस्थान समाचार