Enter your Email Address to subscribe to our newsletters

कानपुरम्, 06 नवंबरमासः (हि. स.)। उत्तरप्रदेशस्य कानपुरजनपदे चुन्नीगञ्जप्रदेशे राजकीय–इण्टर–उच्चतरमाध्यमिकविद्यालये मण्डलीय–स्तर–डॉ॰ संपूर्णानन्द–वादविवाद–प्रतियोगिता आयोजिताऽभवत्।प्रतियोगितायाः विषयः आसीत् — “नारीसशक्तीकरणं भ्रमो वा यथार्थः” इति। एतां सूचना गुरुवासरे जिलाशिक्षा–प्रशिक्षण–संस्थानस्य प्रवक्ता अनुपः पाटेलः प्रदत्तवान्।
प्रवक्ता अनुपः पाटेलः अवदत् यत् मण्डलस्तरीया वादविवाद–प्रतियोगायाम् ओंकारेश्वर–सरस्वती–विद्यानिकेतन–इण्टर–उच्चतरमाध्यमिकस्य जवाहरनगरस्थिताया: छात्रा कुमारी शांभवी मिश्राः पक्षे तथा कुमारी अत्रिका सिंहः विपक्षे प्रथमस्थानस्य विजेते अभवताम्। तथैव बी.एन.एस.डी. शिक्षा–निकेतनउच्चतरमाध्यमिकस्य छात्रा कुमारी उन्नति सिंहः पक्षे, तथा कुमारी कनिष सिंहः विपक्षे द्वितीयस्थानं प्राप्तवती।
प्रवक्ता अनुपः पाटेलः अवदत् यत् मण्डलस्तरे प्रथमद्वितीयस्थानयोः विजेतारौ प्रतिभागिनौ प्रदेशस्तरीया वादविवादप्रतियोगायाम् भागं ग्रहीष्यन्ति।
एतस्मिन् अवसरे ओंकारेश्वर–ग्रूप्–ऑफ्–इन्स्टिट्यूशन्स् इत्यस्य वरिष्ठ–संरक्षकः डॉ॰ अंगदः सिंहः, प्रबन्ध–निदेशिका डॉ॰ पूजा अवस्थी, प्रधानाचार्यः राममिलनः सिंहः च छात्रछात्राणां सफलतायै अभिनन्दनानि प्रदत्तवन्तः, उज्ज्वल–भविष्यस्य च शुभकामनाः अददात्। तैः उक्तं यत् एषा सफलता छात्र–छात्राणां सतत्–परिश्रमस्य, कुशलमार्गदर्शनस्य च परिणामः अस्ति।
एतस्मिन् अवसरे जनपदशिक्षा–प्रशिक्षणसंस्थानस्य कानपुरदेहातस्य प्रवक्त्री डॉ॰ प्राची शर्मा, जनपदशिक्षाप्रशिक्षणसंस्थानस्य औरैयायाः प्रवक्ता श्यामबाबुः शर्मा, राजकीय–उच्चविद्यालय–बैकुण्ठपुर–कानपुरनगरस्य प्रधानाध्यापिका डॉ॰ किरणप्रजापतिः, राजकीयहाई–विद्यालयजहांगीराबाद–कानपुरनगरस्य प्रधानाध्यापिका संगीता सिंहः च अन्ये च विभिन्नविद्यालयेभ्यः आगताः मार्गदर्शकशिक्षकाः उपस्थिताः आसन्।
हिन्दुस्थान समाचार / Dheeraj Maithani