जम्मू-कश्मीर सर्वकारो विरासत पाठ्यक्रमस्य शुभारंभाय मुख्यमंत्री योजनायै अददात् अनुज्ञाम्
जम्मूः, 6 नवंबरमासः (हि.स.)।जम्मू–काश्मीर–सर्वकारेण कौशलविकास–विभागस्य अधीनं “विरासत–पाठ्यक्रम” नामकं मुख्यमंत्री–योजनां अनुमोदिता, या योजनाः क्षेत्रस्य समृद्ध–सांस्कृतिक–विरासतस्य संरक्षणं कौशलाधारित–आजीविकायाश्च संवर्द्धनं प्रति महत्त्वपूर्णं चरण
जम्मू-कश्मीर सर्वकारो विरासत पाठ्यक्रमस्य शुभारंभाय मुख्यमंत्री योजनायै अददात् अनुज्ञाम्


जम्मूः, 6 नवंबरमासः (हि.स.)।जम्मू–काश्मीर–सर्वकारेण कौशलविकास–विभागस्य अधीनं “विरासत–पाठ्यक्रम” नामकं मुख्यमंत्री–योजनां अनुमोदिता, या योजनाः क्षेत्रस्य समृद्ध–सांस्कृतिक–विरासतस्य संरक्षणं कौशलाधारित–आजीविकायाश्च संवर्द्धनं प्रति महत्त्वपूर्णं चरणं मन्यते।

मुख्यमंत्री उमरअब्दुल्लस्य कार्यालयेन निर्दिष्टं यत्, अस्याः योजनायाः अन्तर्गतं विविधेषु शासकीय–औद्योगिक–प्रशिक्षण–संस्थासु (आईटीआई) तथा पॉलिटेक्निक–संस्थासु पंचविंशतिः प्रशिक्षण–एककानि स्थाप्यन्ते, यत्र सप्त पारम्परिक–शिल्प–पाठ्यक्रमाः पुनर्जीविताः भविष्यन्ति। एतेषां एककानां संयुक्ता प्रशिक्षण–क्षमता पञ्चशतानां विद्यार्थिनां भविष्यति।

अस्य उपक्रमस्य प्रमुखं लक्ष्यं तत् अस्ति यत्, जम्मू–काश्मीर–प्रदेशस्य पारम्परिक–कलाः केवलं संरक्ष्येरन् न तु युवानां कृते स्थायी–रोजगार–साधनरूपेण परिवर्त्येरन्। अस्याः योजनायाः अन्तर्गतं प्रशिक्षार्थिभ्यः मासिकं वजीफं प्रदास्यते, प्रशिक्षकानां तु मानदेयं दास्यते, येन सहभागिता च प्रशिक्षणस्य गुणवत्ता च उन्नीयेताम्।

अधिकारीणाम् उक्तं यत्, एषः प्रयत्नः पारम्परिकं ज्ञानं आधुनिक–प्रशिक्षण–संरचनया संयोज्य जम्मू–काश्मीरस्य दीर्घकालिक–विरासतं सुदृढां करिष्यति। अनेन काष्ठ–चित्रण), पेपर–माशे,रांकवसूवनं, अन्यानि च निक्षेप–कौशलानि इति शिल्पानां संवर्धनं सशक्तं भविष्यति।

हिन्दुस्थान समाचार