Enter your Email Address to subscribe to our newsletters

नवदेहली, 06 नवम्बरमासः (हि.स.)। केन्द्रीयविज्ञानप्रौद्योगिकिमन्त्री डॉ॰ जितेन्द्रसिंहः उक्तवान् यत् भारतस्य डीपटेक्–क्रान्तेः त्वरितगत्यर्थं उद्योगक्षेत्रस्य निजी–निवेशकानां च सक्रियसहभागिता अत्यावश्यकाऽस्ति। सर्वकारः अनुसन्धानं नवोन्मेषं च केवलं प्रयोगशालासु न स्थगयितुमिच्छति, किन्तु तद् व्यापारीय–आधारित–समाधानरूपे परिवर्तयितुमिच्छति।
डॉ॰ जितेन्द्रसिंहः गुरुवासरे नवदेहलीमध्ये “उद्भवमान–विज्ञानप्रौद्योगिकीनवोन्मेष–सम्मेलन–(एसटिक2025)” इत्यस्मिन् कार्यक्रमे पिच–एक्स–एसटिक् नाम्ना तात्कालिकं आरब्धस्य एकलक्षकोटिरूप्यक–मूल्यस्य अनुसंधान–विकास–नवोन्मेष–(आरडीआई)–योजनायाः उल्लेखं कृत्वा अवदत् यत् एषा प्रेरणा निजीक्षेत्रं अनुसंधान–प्रौद्योगिकी–निवेशेषु प्रोत्साहयिष्यति।
अस्मिन् कार्यक्रमे देशस्य विंशतिः अधिकाः प्रमुख–नवोन्मेष-–संस्थाः स्वस्व–नवोन्मेषान् प्रदर्शितवन्तः। विज्ञानप्रौद्योगिकीविभागस्य सचिवः प्रो॰ अभयकरन्दीकरः योजनारूपरेखां विवृण्वन् अवदत् यत् विभागः प्रौद्योगिकी–विकास–मण्डलः (टीडीबी) च शीघ्रमेव उदित–क्षेत्रेषु कार्यरत–नवोन्मेष-उद्योगेषु निवेशं आरक्ष्यन्ति।
तस्मिन् सम्मेलनमध्ये ३० चयनित–नवोन्मेषकाः स्वस्यनवोन्मेषान् प्रस्तुतवन्तः, ये विभिन्न–मन्त्रालयैः स
सर्वकारी–विभागैः च नामनिर्दिष्टाः आसन्। तेषु अन्तरिक्ष एवं रक्षा,क्वाण्टम्,प्रौद्योगिकी–साइबरसुरक्षा,स्वास्थ्य, सेमीकण्डक्टर–कृत्रिमबुद्धिमत्ता–कृषिप्रौद्योगिकी इत्यादयः क्षेत्राणि सम्मिलितानि आसन्। एण्ड्योरएयर्, अत्रेय-इनोवेशन्स्, लाइफ–स्पार्क–टेक्नोलॉजीज्, नॉकर्–रोबोटिक्स्, फोर्टी–टूलैब्स् इत्येते स्टार्टअप्–निवेशकानां विशेष–आकर्षणकेन्द्रत्वं प्राप्तवन्तः।
हिन्दुस्थान समाचार / Dheeraj Maithani