कोयम्बटूरमहानगरमध्ये ७ तः ९ नवम्बरपर्यन्तं भविष्यति संस्कार–संस्कृति–संस्कृतस्य च महाकुम्भः
कोयंबटूरम्, 06 नवंबरमासः (हि.स.)। कोयंबटूरनगरे शुक्रवासरे आरभ्यमाणम् ‘अखिलभारतीयम् अधिवेशनम् २०२५’ इदानीं भारतस्य आत्मा–आस्था–आचाराणां च अद्वितीयः संगमः भविष्यति। एषः महाकुम्भः स्यात् यत्र संस्कृतवाणी गुञ्जिता भविष्यति, भारतस्य शाश्वतसंस्कारः च प्र
संस्कृत भारती


कोयंबटूरम्, 06 नवंबरमासः (हि.स.)। कोयंबटूरनगरे शुक्रवासरे आरभ्यमाणम् ‘अखिलभारतीयम् अधिवेशनम् २०२५’ इदानीं भारतस्य आत्मा–आस्था–आचाराणां च अद्वितीयः संगमः भविष्यति। एषः महाकुम्भः स्यात् यत्र संस्कृतवाणी गुञ्जिता भविष्यति, भारतस्य शाश्वतसंस्कारः च प्रकाशिष्यते। एतत् त्रिदिवसीयम् अधिवेशनम् संस्कृतभारती-संस्थायाः आयोजनम् अस्ति, यत् ७ तः ९ नवम्बरपर्यन्तं कोयंबटूरनगरस्य अमृताविश्वविद्यापीठे, एट्टिमडईक्षेत्रे भव्यरूपेण भविष्यति। अस्मिन् अधिवेशने देशस्य सर्वतः आगता: संस्कृतप्रेमिणः, विद्वांसः, शिक्षाविदः, संस्कृतिसंरक्षकाः च भागं ग्रहिष्यन्ति।

उद्घाटनसत्रे तिरुप्पुक्कोजियूर आधीनम्, अविनाशी इत्यस्य श्रीला श्री कामाक्षिदास स्वामीगलः, माता अमृतानन्दमयी मठस्य स्वामी तपस्यमृतानन्दपुरी च, राष्ट्रीयस्वयंसेवकसंघस्य सरकार्यवाहः दत्तात्रेयः होसबले च आशीर्वचनानि प्रदास्यन्ति। अधिवेशनस्य अध्यक्षता संस्कृतभारत्याः अखिलभारतीयाध्यक्षः, भूतपूर्वः कुलपतयश्च आचार्यः गोपबन्धुः मिश्रः करिष्यति। विशेष-अतिथिरूपेण मद्राससंस्कृतमहाविद्यालयस्य डॉ. मणिद्रविडशास्त्री तथा आई.आई.टी. हैदराबादस्य निदेशकः आचार्यः बी.एस. मूर्तिः उपस्थास्यतः। अखिलभारतीयमहामन्त्री सत्यनारायणभट्टः प्रस्ताविकम् उद्बोधनं करिष्यति।

एतस्मिन् अवसरे भारतीयज्ञानपरम्परायाः आधारेण निर्मिता प्रदर्शनी अपि ६ तः ९ नवम्बरपर्यन्तम् आयोजिता अस्ति, यस्याम् वेद–उपनिषद्–आयुर्वेद–गणित–वास्तु–नाट्यशास्त्रादीनां विधीनां निसर्गाः दृश्यन्ते। अधिवेशनस्य अन्तराले संस्कृतशिक्षणस्य नूतनपद्धतयः, आधुनिकप्रौद्योगिक्याः सह समन्वयः, यूनां भाषां प्रति आकर्षणम्, तथा “वेदात् विज्ञानम्” इति “संस्कृतितः समरसता” पर्यन्तं विषयेषु विशेषज्ञसत्राणि भविष्यन्ति।

सांस्कृतिकसन्ध्यासु वैदिकनृत्यसंगीतनाट्यरूपान्तरणादिभिः माध्यमैः भारतीयजीवनमूल्यानां दर्शनं प्रदास्यते।

संस्कृतभारत्याः एतत् अधिवेशनम् भारतीयसंस्कृतेः मूलेभ्यः पुनः सम्बद्धत्वस्य प्रयासः अस्ति। एषः आयोजनः भारतस्य गौरवशालीनां परम्पराणाम्, प्राचीनज्ञानस्य च वैदिकचिन्तनस्य च आधुनिकयुगेन सह सेतुबन्धनस्य सन्देशं दास्यति। न केवलं भाषागौरवस्य उत्सवः अयं, अपि तु संस्कार–संस्कृति–राष्ट्रिय-अस्मितायाः पुनरुत्थानस्य प्रतीकः अपि भविष्यति।

---------------

हिन्दुस्थान समाचार / अंशु गुप्ता