प्रधानमन्त्री मोदी केन्द्रीयगृहमन्त्री-शाह: च अद्य बिहारस्य निर्वाचनरणे स्तः
नवदेहली, 06 नवम्बरमासः (हि.स.)। भारतीयजनतापक्षस्य (भा.ज.पा.) द्वौ प्रमुखौ दिग्गज–प्रचारकौ प्रधानमन्त्रिनरेन्द्रमोदी , केन्द्रीयगृहसहकारितामन्त्री अमितशाहः च अद्य बिहारराज्यस्य विधानसभानिर्वाचनं प्रति दृष्टिं स्थाप्य निर्वाचनसभासु जनान् संबोधितुं गम
भाजपा ने प्रधानमंत्री नरेन्द्र मोदी और केंद्रीयमंत्री अमित शाह के आज के चुनावी दौरे का कार्यक्रम एक्स हैंडल पर साझा किया है।


नवदेहली, 06 नवम्बरमासः (हि.स.)। भारतीयजनतापक्षस्य (भा.ज.पा.) द्वौ प्रमुखौ दिग्गज–प्रचारकौ प्रधानमन्त्रिनरेन्द्रमोदी , केन्द्रीयगृहसहकारितामन्त्री अमितशाहः च अद्य बिहारराज्यस्य विधानसभानिर्वाचनं प्रति दृष्टिं स्थाप्य निर्वाचनसभासु जनान् संबोधितुं गमिष्यतः। प्रधानमन्त्रिणः द्वयोः स्थलेषु, शाहस्य च त्रीषु स्थलेषु च महती यात्रा भविष्यति। भा.ज.पा. दलस्य ‘एक्स्–हैण्डल्’ इत्यस्मिन् सामाजिकमाध्यमे प्रधानमन्त्रिणः नरेन्द्रमोदीनः केन्द्रीयमन्त्रिणः अमितशाहस्य च अद्यतननिर्वाचनयात्रायाः कार्यक्रमः प्रकाशितः अस्ति।

भा.ज.पा.–‘एक्स्–हैण्डल्’–सूचनानुसारं प्रधानमन्त्रिनरेन्द्रमोदी पूर्वाह्णे 11:30 वादने अररियानगरे, अपराह्णे 1:30 वादने भागलपुरे च आगत्य भा.ज.पा.–नीत–राजनीतिकजनतान्त्रिक–गठबन्धनस्य (राजग) प्रत्याशीभ्यः समर्थनार्थं जनसभां संबोधितुं गमिष्यति। अस्मिन् निर्वाचनकाले अपि राजग–भा.ज.पा.–नेतारः ‘जङ्गलराजा’–नाम्ना विषयं पुनरपि उन्नीय वदन्ति। प्रधानमन्त्रिणा अपि गतदिवसे जनसभायां विपक्ष-पक्षं ‘जङ्गलराज्ञ:’ उत्तरदायी इति निर्दिष्टम्।

प्रधानमन्त्री अवदत् – “जङ्गलराज्ञ: काले कन्याभ्यः बहिर्गमनं दुर्वरं जातम्, अद्य तु तथा नास्ति। अद्य रात्रौ अपि चिकित्सालयेषु, रेलयानस्थानकेषु, अन्येषु स्थलेषु च कन्याः निर्भयतया कार्यं कुर्वन्ति। बिहारराज्यस्य महिलाः जङ्गलराज्ञ: पुरतः प्राचीरवत् स्थिताः। ताः निश्चयं कृतवत्यः यत् जङ्गलराज्ञ: पुनरागमनं न भविष्यति। अतः जङ्गलराज–पक्षीयाः महिलाभ्यः विविधं मिथ्याप्रतिज्ञाः कुर्वन्ति। बिहारस्य विकासः केवलं राजग–सङ्घटनेन सम्भवति। राजग–सर्वकारं एव तत्र भगिनीनां कन्यानां च उज्ज्वल-भविष्यस्य प्रत्याभूति अस्ति।”

भा.ज.पा.–‘एक्स्–हैण्डल्’–प्रकाशित–सूचनानुसारं, केन्द्रीयमन्त्री अमितशाह अपराह्णे 12:15 वादने पश्चिमचंपारणे बेतियानगरस्य रामनगरस्थे खैरवांटोला–उद्याने, ततः 45 निमेषानन्तरं मोतिहारी–नगरस्य जनपध–विद्यालय–उद्याने, अपराह्णे 3:00 वादने मधुबनी–नगरस्य बेनीपट्टिस्थे लीलाधर–उच्च–विद्यालये च जनसभां संबोधितुं गमिष्यति।

अमितशाह अपि गतदिवसे जनसभायाम् अवदत् – “चंपारण–जनपदः जङ्गलराजानं समीपात् दृष्टवान्। अपहरण–भर्त्सना–रक्तपात–आदिभिः अनेकैः अपराधप्रकारैः बिहारभूमिः लोहितीकृता आसीत्। स एव जङ्गलरज्ञ: वस्त्रं रूपं च परिवर्त्य पुनरागच्छति। तस्य निरोधनं भवद्भिरेव कर्तव्यम्।”

हिन्दुस्थान समाचार / अंशु गुप्ता