प्रधानमंत्री अददात् संदेशम् : बिहारेऽद्य लोकतंत्रस्य उत्सवः प्रथमे चरणे
पटना, 6 नवंबरमासः (हि.स.)।प्रधानमन्त्रिणा नरेन्द्रमोदिना बिहारराज्यस्य विधानसभानिर्वाचनस्य प्रथमचरणे मतदानस्य आरम्भसमये राज्यवासिभ्यः लोकतन्त्रस्य अस्य उत्सवस्य अवसरं प्रति उत्साहपूर्वकं सहभागिनो भवन्तु इति आह्वानं कृतम्। स्वसन्देशे प्रधानमन्त्री
प्रधानमंत्री अददात् संदेशम् : बिहारेऽद्य लोकतंत्रस्य उत्सवः प्रथमे चरणे


पटना, 6 नवंबरमासः (हि.स.)।प्रधानमन्त्रिणा नरेन्द्रमोदिना बिहारराज्यस्य विधानसभानिर्वाचनस्य प्रथमचरणे मतदानस्य आरम्भसमये राज्यवासिभ्यः लोकतन्त्रस्य अस्य उत्सवस्य अवसरं प्रति उत्साहपूर्वकं सहभागिनो भवन्तु इति आह्वानं कृतम्।

स्वसन्देशे प्रधानमन्त्री अब्रवीत् – अद्य बिहारराज्ये लोकतन्त्रस्य महोत्सवस्य प्रथमः चरणः अस्ति। अस्मिन् चरणे य एव मतदाता सन्ति, ते सर्वे उत्साहेन मतदानं कुर्वन्तु इति मम विनयपूर्णं आग्रहः।

प्रथमवारं मतदानं कुर्वद्भ्यः युवकेभ्यः विशेषं अभिनन्दनं दत्त्वा प्रधानमन्त्रिणा उक्तम् – अस्मिन् अवसरि प्रथमवारं मतं दातुं गच्छन्तः राज्यस्य सर्वे युवा बान्धवाः मम विशेषं अभिनन्दनं स्वीकुर्युः। स्मर्तव्यं यत् — “आदौ मतदानं, अनन्तरं भोजनम्।”

प्रधानमन्त्रिणः एषः सन्देशः मतदातॄन् लोकतन्त्रे प्रति सजगान्, उत्तरदायीन् च भवितुं प्रेरयति। प्रथमचरणे राज्यस्य अनेकेषु जनपदेषु मतदानं प्रवर्तते, यत्र मतदातारः स्वप्रतिनिधीन् निर्वर्तुं पङ्क्तिषु स्थित्वा स्वमताधिकारं प्रयोगयन्ति।

---------------

हिन्दुस्थान समाचार