Enter your Email Address to subscribe to our newsletters

बेंगलुरुनगरम् , 06 नवम्बरमासः (हि.स.)। राष्ट्रीयस्वयंसेवकसंघस्य (आरएसएस) शताब्दीवर्षस्य अवसरे देशस्य चत्वारः प्रमुखनगरेषु आयोजितव्याख्यानमालायाः द्वितीयः कार्यक्रमः ८–९ नवम्बरदिनाङ्कयोः बेंगलुरुरगरस्य बनशङ्करीप्रदेशे होसाकेरेहल्लौ स्थिते पी.ई.एस. विश्वविद्यालये भविष्यति। संघस्य क्षेत्रकार्यवाहा ना. थिप्पेस्वामी इत्यनेन सूचितम् यत् संघः गतवर्षे विजयादशमीदिवसे (२ अक्टूबर) स्वस्य शततमं वर्षं सम्पूर्णं कृत्वा राष्ट्रस्य सर्वाङ्गोन्नतये संकल्पितः अस्ति। शताब्दीवर्षे देशव्याप्यं विजयादशमी-उत्सवाः, युवासम्मेलनानि, गृहे–गृहे सम्पर्ककार्यक्रमाः, हिन्दूसम्मेलनानि, सामाजिकसमरसतासम्मेलनानि, गणमान्यनागरिकैः सह संगोष्ठ्यः च आयोजिताः।
अस्मिन् शताब्दीवर्षे संघेन समाजस्य नीतिनिर्मातृभिः, सामाजिककार्यकर्तृभिः, गणमान्यजनैः च संवादः निरन्तरं धार्यते। ८–९ नवम्बरदिनाङ्कयोः सरसंघचालकः डॉ॰ मोहनभागवतः बेंगलुरौ विशेषव्याख्यानमालां सम्बोधयिष्यति।
थिप्पेस्वामिना उक्तम् — “संघस्य शताब्दीवर्षोपलक्ष्ये देशस्य चतुर्षु भागेषु — नवदेहली, बेंगलुरु, मुम्बई, कोलकाता — ‘संघस्य शतवार्षिकी यात्रा: नूतनक्षितिजाः’ इति विषयकव्याख्यानमाला आयोजिताः। प्रथमः कार्यक्रमः २६–२८ अगस्तमासे नवदेहलीमध्ये सम्पन्नः।”
द्वितीयः कार्यक्रमः बेंगलुरुरगरस्य बनशङ्करी–होसाकेरेहल्लि–रिङ्गरोडस्थिते पीईएस विश्वविद्यालये भविष्यति। केवलम् आमन्त्रिताः अतिथयः एव कार्यक्रमे सहभागी भविष्यन्ति। तत्र कर्नाटक, आन्ध्रप्रदेश, तेलङ्गाण, तमिळनाडु, केरल राज्येभ्यः च १२०० गणमान्यजनाः आमन्त्रिताः सन्ति।
शिक्षा, साहित्य, संस्कृति, कला, विज्ञान, प्रशासन, पत्रकारिता, क्रीडा, व्यवसाय, समाजसेवा, अध्यात्म इत्यादिक्षेत्रेषु विशिष्टाः जनाः अपि तत्र उपस्थिताः भविष्यन्ति। डॉ॰ मोहनभागवतः ८ नवम्बरदिनाङ्के सायं ४.००–७.३० मध्ये द्वौ सत्रौ व्याख्यानौ दास्यति। ततः ९ नवम्बरदिनाङ्के प्रातः १०.३०–१३.३० मध्ये द्वौ सत्रौ श्रोतृप्रश्नानाम् उत्तरप्रदानं करिष्यति।
हिन्दुस्थान समाचार / Dheeraj Maithani