बिहारे मतदानमाधृत्य राजस्थानय मुख्यमंत्रीअकरोत् आह्वानं- दायित्वेन जागरूकतया च मताधिकारस्य उपयोगः करणीयः
जयपुरम्, 6 नवंबरमासः (हि.स.)।राजस्थानराज्यस्य मुख्यमन्त्री भजनलालशर्मा गुरुवासरे बिहारराज्यस्य जनान् प्रति आवाहनं कृतवान् यत् ते विधानसभा–निर्वाचनस्य प्रथमे चरणे उत्साहेन सहभागिनः भवन्तु। मुख्यमन्त्रिणा शर्मणा सामाजिकमाध्यमे X इत्यस्मिन् पोष्टं कृ
राजस्‍थान के मुख्‍यमंत्री भजनलाल शर्मा


जयपुरम्, 6 नवंबरमासः (हि.स.)।राजस्थानराज्यस्य मुख्यमन्त्री भजनलालशर्मा गुरुवासरे बिहारराज्यस्य जनान् प्रति आवाहनं कृतवान् यत् ते विधानसभा–निर्वाचनस्य प्रथमे चरणे उत्साहेन सहभागिनः भवन्तु।

मुख्यमन्त्रिणा शर्मणा सामाजिकमाध्यमे X इत्यस्मिन् पोष्टं कृत्वा लिखितम् —

“बिहारराज्ये अद्य लोकतन्त्रस्य महापर्वस्य प्रथमः चरणः आरब्धः। सर्वे मतदातारः उत्साहेन, दायित्वबोधेन, जागरूकतया च स्वस्य मताधिकारस्य उपयोगं कुर्वन्तु” इति।

अस्मिन् अवसरे प्रथमवारं मतदानं कुर्वन्तः सर्वे युवा–सहचराः प्रति सः हार्दिकं अभिनन्दनं शुभाशंसां च प्रकटितवान् — “प्रथमं मतदानं, अनन्तरं जलपानम्” इति स्मारयन्।

उल्लेखनीयं यत् बिहारराज्यस्य विधानसभा–निर्वाचनस्य प्रथमचरणाय राज्यस्य अष्टादश जिलेषु गुरुवासरे प्रातः सप्तवादने मतदानं प्रारब्धम्।

अस्यां निर्वाचनप्रक्रियायां एकशतं एकविंशतिएकं (121) विधानसभा–क्षेत्रेषु मतदानं प्रवृत्तम् अस्ति, तथा तत्र एकसहस्रं त्रिशतं चतुर्दश (1314) प्रत्याशीणाम् प्रतिस्पर्धा अस्ति,

येषु एकसहस्रं एकनवत्युत्तरशतं द्वौ (1192) पुरुषाः, द्विशतं द्वादश च (122) स्त्रियः प्रत्याशिन्यः सन्ति।

---------------

हिन्दुस्थान समाचार / अंशु गुप्ता