Enter your Email Address to subscribe to our newsletters

फर्रुखाबादम्, 06 नवंबरमासः (हि.स.)।उत्तरप्रदेशस्य फर्रुखाबादजनपदस्य संकिसाग्रामे गुरुवासरे सम्पन्ने बुद्धावतरणसमारोहे भागग्रहणाय आगताः बौद्धानुयायिनः स्तूपपर्यन्तं पूजां कर्तुं न शक्नुवन्। प्रशासनस्य कठोरनीतिने कारणेन ते बैरिकेटिङ् इत्यस्य बहिः एव पूजार्चनां कृत्वा पुनः प्रत्यागच्छन्।
विदितं भवतु यत् बौद्धानुयायिनां विषहरिदेवीसमितेः च मध्ये दीर्घकालात् विवादः प्रवर्तमानः अस्ति। बौद्धानुयायिनः वदन्ति यत् भगवान् बुद्धः ज्ञानलाभानन्तरं संकिसाग्रामं आगत्य अत्र दीर्घकालं पर्यन्तं अखण्डं साधनां कृतवान्। तस्मात् एषः प्रदेशः विश्वस्य सर्वेषां बौद्धानुयायिनां कृते तीर्थरूपेण प्रसिद्धः अभवत्।
अन्यतः विषहरिदेवीसमितिः अभिप्रायं प्रकटयति यत् अयं मन्दिरः विषहरिदेव्याः एव अस्ति, या सनातनधर्मावलम्बिनां श्रद्धासम्बद्धा देवी अस्ति। अस्य विवादस्य कारणेन 1986 तमे वर्षे न्यायालयेन मन्दिर-स्तूपपरिसरे पूजार्चनानुष्ठानं निषिद्धं कृतम्। उभयपक्षयोः कृते स्थानं निषिद्धप्रदेशरूपेण निर्दिष्टं कृत्वा तत्र पुलिसतैनाती अपि कृता।
तत्कालात् आरभ्य अद्यावत् कार्तिकपूर्णिमायां विश्वस्य विविधान् देशान् निवसन्तः बौद्धानुयायिनः अत्र आगत्य बुद्धावतरणसमारोहं मनयन्ति, किन्तु निषिद्धप्रदेशं प्रविश्य पूजार्चनां न कुर्वन्ति। ते बैरिकेटिङ् बहिः एव पूजां कृत्वा पुनः प्रत्यागच्छन्ति।
भन्ते नागसेन नामकः उक्तवान् — “पूर्वं उभयोः पक्षयोः विवादः भवति स्म, अद्य तु बौद्धानुयायिनः बैरिकेटिङ् बहिः एव दीपप्रज्वलनं कृत्वा पूजार्चनां सम्पाद्य शान्त्या सह गच्छन्ति।”
---------------
हिन्दुस्थान समाचार