महिलाक्रिकेट्–विश्वकप्–दिग्गजा स्नेहा राणायै धामी–सर्वकारं 50 लक्ष–रूप्यकाणि दास्यति
देहरादूनम्, 86 नवम्बरमासः (हि.स.)। उत्तराखण्डराज्यस्य मुख्यमन्त्री पुष्करसिंहधामी महोदयः महिला क्रिकेट् विश्वकप् स्पर्धायां भारतस्य प्रतिनिधित्वं कृतवान् उत्तराखण्डस्य कन्यायाः स्नेहाराणया सह दूरभाषे संभाष्य तस्याः उत्कृष्टप्रदर्शनस्य भारतविजयस्य च
मुख्यमंत्री पुष्कर सिंह  क्रिकेटर स्नेहा राणा से फोन पर बात करते


देहरादूनम्, 86 नवम्बरमासः (हि.स.)। उत्तराखण्डराज्यस्य मुख्यमन्त्री पुष्करसिंहधामी महोदयः महिला क्रिकेट् विश्वकप् स्पर्धायां भारतस्य प्रतिनिधित्वं कृतवान् उत्तराखण्डस्य कन्यायाः स्नेहाराणया सह दूरभाषे संभाष्य तस्याः उत्कृष्टप्रदर्शनस्य भारतविजयस्य च अभिनन्दनं कृतवान्। मुख्यमन्त्रिणा स्नेहाराणायाः सिद्धेः देशप्रदेशयोः गौरववृद्धेः प्रसङ्गे 50 लक्षरूप्यकाणां प्रोत्साहनराशेः घोषणां कृतम्। मुख्यमन्त्रिणा उक्तं यत् – “भारतीयक्रिकेट्-दले चयनं प्राप्तायाः स्नेहाराणायाः अभिनन्दनम्। उत्तराखण्डस्य बालिकाः देशं गौरवयन्ति, तत्र स्नेहाराणायाः प्रदर्शनं तस्याः उज्ज्वलम् उदाहरणम्।”

मुख्यमन्त्री अवदत् – “स्नेहाराणा महोदया स्वश्रमेण, संकल्पेन, प्रतिभया च उत्तराखण्डस्य नाम विश्वपटलपर्यन्तं प्रकाशयामास। तस्याः सफलता राज्यस्य युवानां विशेषतया कन्यानां प्रेरणास्रोतः अस्ति। राज्यसर्वकारः क्रीडकेभ्यः उत्तमसुविधा प्रोत्साहनं च दातुं संकल्पिता अस्ति।” मुख्यमन्त्रिणः सम्मानं प्रोत्साहनराशेः च घोषणां प्रति स्नेहाराणायाः आभारः व्यक्तः, सा अवदत् यत् “अहं देशस्य उत्तराखण्डस्य च नाम विश्वे प्रकाशयितुं निरन्तरं प्रयतिष्ये।”

हिन्दुस्थान समाचार / Dheeraj Maithani