Enter your Email Address to subscribe to our newsletters

पटना, 06 नवंबरमासः (हि.स.)।
बिहारविधानसभानिर्वाचनस्य प्रथमे चरणे अष्टादशजिलानां एकशतैकविंशतिसु आसनेषु अद्य प्रातः सप्तवादने मतदाने आरम्भः जातः। सायं षड्वादने यावत् मतदानं भविष्यति। लगभग् त्रयः सप्ततिः पञ्च (३.७५) कोट्यधिकाः मतदातारः एकसहस्रत्रिशत्चतुर्दश (१३१४) प्रत्याशिनां भाग्यं ई-मतयन्त्रेषु बन्धयिष्यन्ति।
प्रथमचरणे गया, औरंगाबाद, नवादा, कैमूर, रोहतास, अरवल, जहानाबाद, पटना, भोजपुर, बक्सर, नालन्दा, लखीसराय, शेखपुरा, जमुई, मुंगेर, बांका, भागलपुर तथा खगडिया इत्येतेषु जिलेषु मतदानं प्रवृत्तम् अस्ति। निर्वाचनायोगेन सर्वेषु मतदातृकेन्द्रेषु सुरक्षा–व्यवस्था दृढीकरणं कृतम् अस्ति। प्रायः पञ्चषष्टिसहस्राधिकेषु मतदातृकेन्द्रेषु सुरक्षा–बलानाम् नियुक्तिः कृता अस्ति। ग्राम्यप्रदेशेषु प्रातःकालादेव दीर्घाः पङ्क्तयः दृश्यन्ते, यदा कि नगरेषु मध्यान्हसमये यावत् मतदातृसंख्या वृद्धिं प्राप्स्यति इति अपेक्षा अस्ति।
---------------
हिन्दुस्थान समाचार / Dheeraj Maithani