Enter your Email Address to subscribe to our newsletters

पाटलिपुत्रम्, 06 नवम्बरमासः (हि.स.)। बिहारराज्ये विधानसभा–निर्वाचनस्य प्रथमचरणे १२१ आसनेषु गुरुवासरे प्रातः ७ वादनात् सायं ६ वादनपर्यन्तम् मतदानं प्रवृत्तम्। सर्वेषु निर्वाचनक्षेत्रेषु मतदातारः प्रातःकाले एव स्वमतदानकेन्द्रेषु आगत्य मताधिकारं प्रयोगयन्ति।अस्मिन्समये निर्वाचनायोगेन विशेषरूपेण युवामतदातॄणां कृते कार्यक्रमः आरब्धः अस्ति। ये प्रथमवारं मतदानं कुर्वन्ति, तान् प्रशस्तिपत्रैः सम्मान्यते स्म।
मतदानकेन्द्रेषु प्रथमवारमतदानकर्तारां युवानां मध्ये महान् उत्साहः दृश्यते। आयोगस्य अस्य उपक्रमस्य मुख्यः उद्देश्यः अस्ति—युवाजनानां मध्ये मतदानस्य जागरूकता तथा उत्तरदायित्वभावना वर्धयितुम्।
यदा कश्चन नवः मतदाता मतदानं करोति, तदा तत्क्षणमेव तस्मै प्रशस्तिपत्रं दत्तं भवति। अधिकृताः अवदन् यत्, अस्य प्रयत्नस्य फलस्वरूपेण युवानां मध्ये लोकतान्त्रिकप्रक्रियायां रुचिः तथा गौरवभावः वर्धिष्यते।
सीवानजनपदस्य महाराजगञ्जविधानसभाक्षेत्रे अपि एषः अभियानः प्रवर्तितः। मतदानकेंद्रसंख्या १०८ इत्यत्र तन्याकुमारी इत्याख्या युवती, या प्रथमवारं मतदानं कृतवती, ताम् भारतीयलोकतन्त्रे योगदानस्य प्रशंसायां प्रशस्तिपत्रेण सम्मान्य अभवत्।
तया अन्येभ्यः युवेभ्यः आह्वानं कृतम् — “सर्वे युवानः अधिकसङ्ख्यया स्वमतदानकेंद्रेषु आगत्य मतं ददात।”
अनेके मतदातारः अपि अवदन् यत्, सम्मानप्राप्त्या तेषां गौरवभावः वर्धितः, तथा भविष्ये अपि ते मताधिकारस्य प्रयोगे प्रेरिताः अभवन्। एषः उपक्रमः “मतदाताजागरूकता-अभियानस्य” अन्तर्गतः, यस्य उद्देश्यम् अस्ति — अधिकाधिकान् जनान् लोकतन्त्रस्य अस्मिन् पर्वे सम्मिलितान् कर्तुम्।
हिन्दुस्थान समाचार / Dheeraj Maithani