असमाय देशस्य अग्रणी राज्येषु सम्मेलितुं लक्ष्यम् : मुख्यमंत्री
गुवाहाटी, 07 नवंबरमासः (हि.स.)। असमराज्यस्य मुख्यमन्त्री डॉ हिमन्तबिस्वसरमा इत्यनेन उक्तं यत् असमराज्यं विकासप्रगत्योः माध्यमेन देशस्य श्रेष्ठराज्यानां श्रेण्यां स्थापयितुं तस्य सरकारायाः स्वप्नम् अस्ति। मुख्यमन्त्रिणा एवमपि उक्तं यत् प्रधानमन्त्रि
Image shared by Assam CM Dr Himanta Biswa Sarma.


गुवाहाटी, 07 नवंबरमासः (हि.स.)। असमराज्यस्य मुख्यमन्त्री डॉ हिमन्तबिस्वसरमा इत्यनेन उक्तं यत् असमराज्यं विकासप्रगत्योः माध्यमेन देशस्य श्रेष्ठराज्यानां श्रेण्यां स्थापयितुं तस्य सरकारायाः स्वप्नम् अस्ति। मुख्यमन्त्रिणा एवमपि उक्तं यत् प्रधानमन्त्रिणः नरेन्द्रमोदिनः नेतृत्वेन तथा केन्द्रसरकारस्य पूर्णसहाय्येन अद्य असमराज्यं शीघ्रं प्रगतिमार्गेण अग्रे गच्छति

तेन केन्द्रीयवित्तमन्त्रिणीं निर्मलासीता‍रमणां प्रति कृतज्ञतां व्यक्त्वा उक्तं यत् अद्य श्वश्च राज्याय समर्प्यमाणाः गेटवे ऑफ गुवाहाटी टर्मिनल, १.२ किलोमीटर दीर्घः रिवरफ्रण्ट च, शहीदकनकलता बरुवा राज्यविश्वविद्यालय च इत्यादयः परियोजनाः असमराज्यस्य सामूहिकप्रतिबद्धतायाः प्रतीकाः सन्ति, या राज्यस्य विकासकथां नवशिखराणि प्रति नेष्यन्ति।

---------------

हिन्दुस्थान समाचार