Enter your Email Address to subscribe to our newsletters




- कपूराशी समेत्य कच्छस्य बहवो ग्रामाः निर्वहन्ति 'सीमा प्रहरिणो' भूमिका
-यदि कश्चन सरकारीभूमौ धार्मिकभवनं निर्मितम्, तु तत्र बुलडोजरद्वारा चालयिष्यते- उपमुख्यमंत्री भुजम्, 07 नवंबरमासः (हि.स.) |गुजरातराज्यस्य उपमुख्यमन्त्रिणा हर्षसंघविना भारतपाकिस्तानयोः सीमायाः समीपस्थितग्रामेषु सीमापरिस्थितेः निरीक्षणं कर्तुं, सामाजिकआर्थिकावस्थां आवासादिविषयान् अवगन्तुं च सरकार आपके द्वार इत्यस्य आदर्शवाक्यस्य साक्षात्करणाय कच्छप्रदेशस्य दौरो कृतः।
अस्य यात्रायाः समये गुरुवासररात्रौ सः कच्छजनपदस्य लखपत्उपतहसिले स्थितं कपूराशीग्रामं प्राप्तवान्। तत्र सः कपूराशीकोरियानीग्रामवासिभिः सह संवादं कृत्वा खटियासभायाम् भागं गृहीतवान्।
कपूराशिग्रामे आयोजितायां खटियासभायां उपमुख्यमन्त्रिणा हर्षसंघविना उक्तं यत्प्रधानमन्त्रिणः नरेन्द्रमोदिना प्रदर्शितायाः दूरदर्शिनीत्याः कृते कच्छस्य अन्तरराष्ट्रीयसीमायां स्थितानि ग्रामाणि लाभं प्राप्तानि। तेन उक्तं यत् कल्याणकार्ययोजनानां सफलक्रियान्वयेन कच्छप्रदेशस्य स्थिति: परिवृत्ता, लोकानां सामाजिकआर्थिकजीवने परिवर्तनं जातम्।
संघविना एव उक्तं यत्सीमासमीपग्रामाणां विकासः कथं साधनीयः इति उद्देशेन त्रिंशदधिकाः वरिष्ठाः पुलिसाधिकारिणः सीमाग्रामेषु सभाः चर्चाश्च आयोज्य जनानां समस्याः ज्ञातवन्तः। कपूराशिग्रामे रात्रौ ग्रामजनैः सह तेन कृतं प्रवासं संवादं च सः महत्वपूर्णं अवसरं मन्यते।
सीमान्तग्रामवासिनां देशभक्तिं प्रशंस्य उपमुख्यमन्त्रिणा उक्तं—ग्रामजनानां सतर्कवृत्तेः कारणेन सीमा पारतः घुस्पैठनिवारणे महान् सफलताः प्राप्ताः। सः उक्तवान्—कपूराशीग्रामं कच्छस्य च अन्ये ग्रामाः सीमाप्रहरीणाम् भूमिकां निर्वहन्ति।
संघविना ग्रामजनान् प्रति आह्वानं कृतम्—सीमापारतः घुस्पैठं, सरकारीभूमौ च अनुचितदबावं यदि दृश्यते, तर्हि तद् त्वरितं प्रशासनं प्रति निवेद्यताम्। यदि ग्रामजनाः जागरूका भवन्ति तर्हि मादकद्रव्यप्रवृत्तिः, असामाजिकक्रियाः, सरकारीभूमौ धार्मिकदबावः च इत्यादयः दुष्प्रवृत्तयः निवारयितुं शक्याः।
उपमुख्यमन्त्रिणः कपूराशीग्रामे ढोलनगारेण, कच्छीपगडीधारणेन च स्वागतं कृतम्। सः ग्रामे वयोवृद्धैः युवकैः च सह मुक्तसंवादं कृत्वा ग्रामस्य समस्याः सामाजिकआर्थिकं भौगोलिकं च स्थिति: अवगतम्। तेन उक्तम् यन्मम गौरवं यत् अहं एतेषां सच्चदेशभक्तानां मध्ये अस्मि। सः स्पष्टं चेतावनीम् अपि दत्तवान्—यदि सरकारीभूमौ धार्मिकं वा अन्यद्वा अनुचितदबावं कश्चित् करोति, तर्हि तत्र बुलडोजरः प्रवर्तिष्यते इति।
अस्मिन् अवसरे सांसदः विनोदचावडा, अबडासाविधानसभायाः विधायकः प्रद्युम्नसिंहजडेजा, गुजरातराज्यसीआईडीअपराधविभागस्य महानिदेशकः के.एल.रावः, कच्छसीमारक्षकक्षेत्रस्य महानिरीक्षकः चिरागकोर्डिया, कच्छजिल्हास्य कलेक्टरः आनन्दपटेलः, अन्ये वरिष्ठाधिकारीणः पदाधिकारीणः च उपस्थिताः। ग्रामवासिनः अपि बहुसंख्यया तत्र आसन्।
____________
हिन्दुस्थान समाचार