डॉ. मोहन भागवतं बेंगलुरौ गली अंजनेय स्वामिनो दर्शनमकरोत्
बेंगलुरूः, 7 नवंबरमासः (हि.स.)। राष्ट्रीयस्वयंसेवकसंघस्य प्रमुखः डॉ. मोहनभागवतः शुक्रवारदिने बेंगलुरु-मैसूरमार्गे स्थिते ऐतिहासिके श्रीगल्याञ्जनेयस्वामिमन्दिरे दर्शनं कृतवान्। तेन भगवतः विशेषपूजाअर्चनां सम्पन्नां कृत्वा देशस्य समाजस्य च कल्याणाय प्
Mohan bhagwat


बेंगलुरूः, 7 नवंबरमासः (हि.स.)। राष्ट्रीयस्वयंसेवकसंघस्य प्रमुखः डॉ. मोहनभागवतः शुक्रवारदिने बेंगलुरु-मैसूरमार्गे स्थिते ऐतिहासिके श्रीगल्याञ्जनेयस्वामिमन्दिरे दर्शनं कृतवान्। तेन भगवतः विशेषपूजाअर्चनां सम्पन्नां कृत्वा देशस्य समाजस्य च कल्याणाय प्रार्थना कृता। अस्मिन् अवसरे अखिलभारतीयव्यवस्थाप्रमुखः मङ्गेशबेंधे तथा जिलाप्रचारकः भरतकुमारः अपि उपस्थितौ आस्ताम्।

राष्ट्रीयस्वयंसेवकसंघेन अद्यतनकाले, 2 अक्टूबरदिनाङ्के विजयदशम्यां, स्वस्य शताब्दीवर्षं उत्सवेन आचरितम्। अस्य शताब्दीसमारोहस्य अन्तर्गतं संघेन देशव्यापिन्यः अनेकाः गतिविधयः आयोजिताः यद्विजयदशमीउत्सवः, युवासम्मेलनम्, गृहगृहसंपर्ककार्यक्रमः, हिन्दूसम्मेलनम्, सामाजिकसद्भावनासम्मेलनम्, प्रमुखनागरिकाणां कृते संगोष्ठी च।

एतस्मिन्नेव सन्दर्भे संघस्य शताब्दीकार्यक्रममालायाः अन्तर्गतं बेंगलुरुनगरे 8 नवम्बर तथा 9 नवम्बरतारिखयोः व्याख्यानमाला आयोजितेति। डॉ. मोहनभागवतः अस्मिन् कार्यक्रमे व्याख्यानं दास्यति। तस्मात् सः एतदर्थं बेंगलुरुं आगतः।

----

हिन्दुस्थान समाचार