Enter your Email Address to subscribe to our newsletters

गुवाहाटी, 07 नवम्बरमासः (हि.स.)।असमराज्यस्य कृते अद्य गौरवस्य क्षणः जातः, यदा केंद्रीय–वित्तमन्त्री निर्मलासीता–रमणेन गुवाहाटी–नगरे भव्यः ब्रह्मपुत्र–रिवरफ्रण्ट इत्यस्य उद्घाटनं कृतम्। एषा परियोजना प्रकृतेः संस्कृतेः आधुनिकतायाः च अनन्यः संगमः अस्ति, या महाबाहोः ब्रह्मपुत्रस्य गौरवस्य अनुरूपेण विकसिताऽभवत्।
ब्रह्मपुत्र–तटे निर्मितः अयं रिवरफ्रण्ट स्थानीय–नागरिकानां पर्यटकानां च कृते मनोरंजनस्य सौन्दर्यस्य च नूतनं केन्द्रं भविष्यति।
असमस्य मुख्यमन्त्री डॉ॰ हिमन्त–बिस्व–सरमा इत्यनेन अद्य एक्स् नामके माध्यमे लिखित्वा उक्तं यत्, एषा परियोजना राज्यस्य विकासस्य रूपान्तरणस्य च दिशायाम् एकं महत्वपूर्णं चरणं अस्ति। सा असमस्य समृद्धां प्राकृतिक–सांस्कृतिक–निक्षेपं संरक्ष्य आधुनिकतायाः दिशि गच्छन्ती प्रतीकस्वरूपा अस्ति।
--------------
हिन्दुस्थान समाचार