गुजरातस्य प्रसिद्ध लोक साहित्यकारः पद्मश्री जोरावरसिंह जादवः निधनंगतः
अहमदाबादम्, 7 नवंबरमासः (हि.स.)|गुजरातस्य लोकसाहित्यकारः, कथाकारः, “गुजरात लोककला फाउण्डेशन” संस्थापकः च सम्पादकः च पद्मश्री जोरावरसिंह जादवः पञ्चाशीतितमे वर्षे दिवंगतः अभवत्। तेन लोकसंस्कृत्याः, लोककलायाः, लोकसाहित्यस्य च विषयेषु नवतिाधिकानि ग्रन
Famous Gujarati folk writer Padma Shri Jorawarsinh Jadav passes away


अहमदाबादम्, 7 नवंबरमासः (हि.स.)|गुजरातस्य लोकसाहित्यकारः, कथाकारः, “गुजरात लोककला फाउण्डेशन” संस्थापकः च सम्पादकः च पद्मश्री जोरावरसिंह जादवः पञ्चाशीतितमे वर्षे दिवंगतः अभवत्। तेन लोकसंस्कृत्याः, लोककलायाः, लोकसाहित्यस्य च विषयेषु नवतिाधिकानि ग्रन्थानि रचितानि सम्पादितानि च। तस्य निधनात् गुजरातीसाहित्यजगति शोकतरङ्गः व्याप्तः अस्ति।जोरावरसिंहजादवस्य जन्म 10 जनुवरि 1940 तमे वर्षे धंधुका तहसीलस्य आकरू ग्रामे अभवत्। तस्य पितुः नाम दानुभाई हालुंभाई आसीत्, मातुः नाम पंबा आसीत्, तौ कृषकौ आस्ताम्। तस्य बाल्यकालः आकरू ग्रामे व्यतीतः, तस्य पालनपोषणं सौमाता गंगाबा नाम्ना कृतवती।स बाल्ये एव लोकसाहित्यस्य लोककलानां च गम्भीरानुभवम् अलभत। स लोककथानां गीतानां च लोकजीवनस्य विविधपहलूनां विषयेषु नवत्यधिकानां कृतिनां सम्पादनं सृजनं च कृतवान्। तस्य प्रसिद्धकथासु मरद कसुम्बल रंग चढे तथा मरदाई माथा साटे इत्येते प्रसिद्धग्रन्थौ स्तः। तेन मेघानी सुवर्णचन्द्रकः, गुजरातसाहित्यअकादमीपुरस्कारः च अन्ये च बहवः पुरस्काराः लब्धाः।जोरावरसिंहजादवः 1964 तमे वर्षात् सरकारसाप्ताहिकी, ग्रामस्वराज, जिनमंगलनामिकानां मासिकपत्रिकानां सम्पादनकार्यं वहन् आसीत्। स लोककलां जनसमक्षं प्रस्तुतुं पत्रिकाभिः सह आकाशवाणीदूरदर्शनयोः अपि विविधकार्यक्रमानां आयोजनं संचालनं च कृतवान्। तेन 1978 तमे वर्षे गुजरात लोककला फाउण्डेशन इति संस्था स्थापिता, यस्य माध्यमेन गुजरातराजस्थानयोः अशिक्षितशोषितखानाबदोशजातीनां लोककलाकाराः जनसमक्षं आगत्य स्वाभिव्यक्तिं कर्तुं अवसरं प्राप्तवन्तः।

----

हिन्दुस्थान समाचार