Enter your Email Address to subscribe to our newsletters

नवदिल्ली, 7 नवंबरमासः (हि.स.)।बिहारविधानसभानिर्वाचनस्य द्वितीयचरणार्थं कांग्रेसदलेन प्रचारकार्यं तीव्रीकृतम् अस्ति। कांग्रेसाध्यक्षः मल्लिकार्जुनखरगे च लोकसभायां विपक्षनेता राहुलगान्धी च शुक्रवारदिने बिहारराज्यस्य विभिन्नेषु जनपदेषु जनसभाः करिष्यतः। कांग्रेसाध्यक्षस्य मल्लिकार्जुनखरगेः प्रथमा जनसभा मध्यान्हे द्वादशवादनत्रिंशत्काले चेनारीविधानसभाक्षेत्रे भविष्यति, द्वितीया च जनसभा सायं चतुर्वादने गया-नगरनाम्नि स्थले भविष्यति। राहुलगान्धी अपि मध्यान्हे द्वादशवादने बांका-जिलस्य अमरपुरे, पश्चात् एकवादनपञ्चचत्वारिंशत्काले भागलपुरे जनसभां समाभाषिष्यते।
---------------
हिन्दुस्थान समाचार