Enter your Email Address to subscribe to our newsletters

नवदिल्ली, 07 नवंबरमासः (हि.स.)।भारतेन ब्रिटेनदेशेन च मध्ये विधि न्याय क्षेत्रयोः पारस्परिकं सहयोगं अधिकं सुदृढं कर्तुं व्यापकस्तरे विचारविमर्शः सम्पन्नः। अस्मिन् सम्बन्धे ब्रिटेनस्य न्याय मन्त्रालयस्य प्रतिनिधिमण्डलं शुक्रवासरे नूतन दिल्लीस्थिते शास्त्री भवने भारत सरकारस्य विधि न्याय मन्त्रालयस्य विधायी विभागस्य सचिवं समासाद्य साक्षात्कारं कृतवन्तः।
केन्द्रीय विधि मन्त्रालनेन उक्तं यत्, सभायां विधायी मसौद निर्माणे, Ease of Living नामक पहलायाम्, अप्रचलित नियम निरसन प्रक्रियायाम्, न्यायाधिकरण प्रणाल्यां, लैङ्गिक न्याये च, उभयदेशीय अधिकारिणां प्रशिक्षण कार्यक्रमेषु च विस्तारतः चर्चा अभवत्।
सभासमये उभयपक्षाभ्यां भारत ब्रिटेनयोः मध्ये निष्पन्नस्य समझौता ज्ञापनस्य (MOU) कार्यान्वयन सम्बन्धेषु विषयेषु अपि विमर्शः कृतः।
प्रतिनिधिमण्डले ब्रिटेनस्य न्याय मन्त्रालयस्य अन्ताराष्ट्रिय कार्यक्रमप्रमुखः डेविड मेयरः, अन्तरराष्ट्रीय विधि शासन प्रमुखा क्रिस्टिना सोपर्, विधिक सेवायाः वरिष्ठ नीति सलाहकारः पॉल स्कॉट्, अन्ताराष्ट्रिया सहभागिता वरिष्ठ नीतेः परामर्शः बार बोरा सिंदारोवा इत्येते समाविष्टाः आसन्। तेषां सह ब्रिटिश उच्चायोगस्य अधिकारिणोऽपि उपस्थिताः आसन्।
---------------
हिन्दुस्थान समाचार